पृष्ठम्:अलङ्कारमणिहारः.pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
154
अलंकारमणिहारे

 नीलाचल इति शेषाद्रेरेव नामान्तरम् । अत्र यद्यवरोधसद्मत्वादीनामुपरञ्जकतामात्रेणान्वयस्तदा रूपकसंकीर्ण उल्लेखः । यदि ताद्रूप्यानुभवगोचरतया तदा भ्रान्तिमत्संकीर्णः ॥

 अयं च स्वरूपहेतुफलोल्लेखनरूपत्वात्त्रिविधः । तत्र स्वरूपोल्लेखस्समनन्तरमेवोदाहृतः ॥

 हेतूल्लेखो यथा--

 दानात्कतिचन केचिद्गानान्नाम्नां विदुः प्रसदनं ते । ध्यानात्परे वयं तु श्रीनाथाकिंचनत्वविभवेन ॥

 अत्रैकस्यैव प्रसदनस्य हेतूनामनेकधात्वेनानेकैरुल्लेखनम् ॥

 फलोल्लेखो यथा--

 विपदपहृतये दीनाश्श्रीदानायार्थलिप्सवो मनुजाः । वृद्धास्स्वबन्धमुक्त्यै तद्धाम वृषाद्रिभुवि वदन्त्युदितम् ॥ २६२ ॥

 अत्रैकस्यैव भगवदुदयस्य फलानामनेकधात्वेनोल्लेखनम् । तद्धाम तत्तेजः परं ब्रह्मेत्यर्थः ॥


अथ द्वितीय उल्लेखः.



एकस्य विषयादीनामनेकत्वनिबन्धनम् ।
नैकधात्वं ग्रहीत्रैक्येऽप्युल्लेखस्सोपि संमतः ॥ ४४

 विषयादीनामित्यत्रादिशब्देनाश्रयादिग्रहणम् । यत्रासत्यपि