पृष्ठम्:अलङ्कारमणिहारः.pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
146
अलंकारमणिहारे

 यथा वा--

 बुध्वाऽऽचार्यानुग्रहसिद्धाञ्जनतोऽञ्जनाचलेन्दो त्वाम् । वशयन्विशदस्वान्तो भृशमभिनन्देयमुपशमिततृष्णः ॥ २४५ ॥

 अत्र सिद्धाञ्जनस्याचार्यानुग्रहतयैव भगवज्ज्ञानतद्वशीकरणक्षमत्वम् ॥

 यथा वा--

 श्रीवेङ्कटाद्रिशेखरकटाक्षमयकङ्कटावृतो योगी । चण्डकरमण्डलमपि प्रवेष्टुमीष्टे सहस्रहेतिमयम् ॥ २४६ ॥

 हेतयः शस्त्राणि अर्चींषि चेत्यर्थः। ‘रवेरर्चिश्च शस्त्रं च वन्हिज्वाला च हेतयः' इत्यमरः । कङ्कटः कवचः । अत्र कङ्कटस्य भगवत्कटाक्षतया परिणामादेव चण्डकरमण्डलप्रवेशक्षमतेति ध्येयम् ॥

 वाक्यगो यथा--

 किंनु तया संपत्त्या वैधात्र्या वाऽपि कर्मपरिणत्या । त्वां प्रेप्सोर्वितर हरे भक्तिं धनमेव मे विरक्तिघनम् ॥ २४७ ॥

 'कर्मणां परिपाकत्वादा विरञ्चादमङ्गळम्' इत्युक्तस्वरूपया ब्राह्म्याऽपि संपदा त्वामेव प्रेप्सोर्मे किं साध्यम् । भक्तिं त्वद्भक्तिरूपमेव धनं देहीत्यर्थः । अत्रारोप्यमाणं धनं भक्तिरू-