पापन्नमेव वितरणरूपकार्योपयोगि, न स्वात्मना । कवेर्भगवत्प्राप्तिमात्रमपेक्षमाणस्य वैरिञ्चिविभूतेरपि तृणीकरणेन केवलधनार्थिताविरहात् ॥
यथा वा--
फणधरधरणिधरेन्दा स्मरणं तव चरणयोः कतकरेणुः । संशयधूसरतां नस्संशमयति हंत सर्वतत्वार्थे ॥ २४८ ॥
अत्रारोप्यमाणः कतरेणुर्भगवत्स्मरणतापत्त्यैव संशयधूसरतासंशमनलक्षणकार्ये उपयुज्यते न स्वातन्त्र्येणेति भवति परिणामः । उदाहरणबाहुल्यं बुद्धिवैशद्याय ॥
व्यधिकरणो यथा--
अधररुचा रागवती नलिनवती नयनपाणिचरणेन । लक्ष्मीः प्रभातलक्ष्मीराधत्ते नः प्रबोधमनवधिकम् ॥ २४९ ॥
अत्रानवधिकप्रबोधाधानं परिमितप्रबोधाधायिन्याः प्रभातलक्ष्म्यास्स्वात्मना । बाधितं लक्ष्मीरूपेण तु संगच्छत इति भवति परिणामः । स च परस्परासापेक्षबहुसंघातात्मकतया सावयवः। तत्र पूर्वार्धगतौ द्वाववयवौ व्यधिकरणौ उत्तरार्धगतश्चैकस्समानाधिकरणः। अनवधिकं प्रबोधं असंकुचितं ज्ञानं मुक्त्यैश्वर्यमिति यावत् ॥
अत्रेदमवधातव्यम्-यत्र विषयस्य विषयिताद्रूप्यापत्त्या प्रकृतकार्योपयोगित्वं तत्र रूपकम्, यत्र तु विषयिणो विषय-