पृष्ठम्:अलङ्कारमणिहारः.pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
145
परिणामसरः (८)

 यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगितया निबध्यमानस्स्वातन्त्र्येण तस्य तदुपयोगित्वासंभवात्प्रकृतात्मतापरिणतिमपेक्षते स परिणामः । अत एवान्वर्थसंज्ञोऽयम् । अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति भवति रूपकादस्य भिदा । अयं च परिणामो द्विविधस्सामानाधिकरण्यवैयधिकरण्याभ्याम् । सामानाधिकरण्येऽपि समासगो वाक्यगश्चेति द्विविधः । तत्राद्यो यथा ॥

 द्विरदाधिपवरदानस्फुरदादरणस्य फणिगिरिनियन्तुः । सुरदानवनुतकीर्तेर्वरदायि कराब्जमवतु सुकुमारम् ॥ २४३ ॥

 अत्र ह्यब्जस्य वरदानादिकं निबध्यते न तु करस्य । मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात् । न च करः अब्जमिवेत्युपमितसमासावलम्बनेन पूर्वपदार्थप्रधानतैव कुतो न स्यादिति वाच्यं, सामान्याप्रयोग एव तदनुशासनात् । इह च सुकुमारमिति सामान्यधर्मप्रयोगात् । अब्जस्य स्वतो वरदानादिकार्यानुपयोगितया प्रकृतभगवत्करात्मतापरिणत्यपेक्षणात्परिणामः ॥

 यथा वा--


 तावकशुभगुणसौरभविसरैरधिवासितं सतां स्वान्तम् । दुर्दान्तदैवतान्तरदुर्गन्धं दूरतो जहाति हरे ॥ २४४ ॥

 अत्र सौरभस्य स्वातन्त्र्येण सत्पुरुषस्वान्ताधिवासनेऽनुपयोगाद्भगवच्छुभगुणतया परिणामः ॥

 ALANKARA
19