पृष्ठम्:अलङ्कारमणिहारः.pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
121
रूपकसर‌ः‍‌‌‍ (७)

संगतिश्चेति वाच्यम् । एवमपि ‘अमुष्मिन्पोतक्ष्मारमणसुतसूरक्षितिपतेर्यशश्शेषे सोऽयं स्वपिति गगनश्रीसहचरः’ इत्यादौ शेषरूपकसापेक्षश्रीसहचररूपके सावयवरूपकत्वेन काव्यदर्पणोदाहृते अतिप्रसङ्गापातात् । न चेष्टापत्तिर्युज्यते, ‘नियतारोपणोपायस्स्यादरोपः परस्य यत्' इति परंपरितं लक्षयतां काव्यप्रकाशकारादीनामनभिमतत्वात् । यशसि शेषत्वमरूपयित्वाऽपि ‘यशोव्याजे शेषे स्वपिति गगनश्रीसहचरः' इति पद्यपाठेन श्रीसहचररूपकोपपादनसंभवात्तत्रत्यरूपकयोर्नियतहेतुहेतुमद्भावासंभवात् । न चैवं सति नियतहेतुहेतुमद्भावापन्नत्वमेव रूपकद्वये निवेश्य परिष्क्रियतां लक्षणमिति वाच्यम् । एवमपि 'चतुर्दशलोकवल्लिकन्दः' इत्यादौ प्रकाशाद्यभिमते परंपरिते अव्याप्तिप्रसङ्गात् । तत्रापि ‘चतुर्दशलोकवल्लिहेतुः' इति वा 'चतुर्दशलोकमूलकन्दः' इति वा निबन्धसंभवेन नियतहेतुहेतुमद्भावस्य दुरुपपादत्वात् । तस्मादेकरूपकीयविषय्यन्वितविषयिकरूपकान्तरत्वमेव परंपरितरूपकलक्षणमास्थेयम् । काव्यप्रकाशसर्वस्वादिप्राक्तनमाननीयनिबन्धोपात्तेषु सर्वेष्वेव परंपरितरूपकोदाहरणेषूत्तररूपके विषयवाचकपदं विषयिवाचकपदेनासमस्ततयैव दृश्यत इति भवति तत्र पूर्वरूपकारोप्यान्वितस्यैवोत्तररूपकीयारोप्यस्य तदीयविषयेऽन्वयः ॥

 एवम्--

 निगममकुटीवधूटीवतंसचरणं श्रयामहे शरणम् । भवजलधितरणिकरुणं तरूणाम्बुदनीलमहिधराभरणम् ॥ २०६ ॥

 ALANKARA
16