पृष्ठम्:अलङ्कारमणिहारः.pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
122
अलंकारमणिहारे

 इत्यादौ परंपरितरूपकोदाहरणे उत्तररूपकद्वये चरणकरुणारूपविषयवाचकपदयोः वतंसतरणिरूपविषयिवाचकपदाभ्यां समस्ततया दर्शनेऽपि पूर्वरूपकीयवधूटीजलध्यारोप्यान्विततयैवोत्तररूपकीयावतंसतरणिरूपारोप्ययोस्तदीयचरणकरुणारूपविषयाभ्यामन्वयः । तथा तदुपात्तेषु सावयवोदाहरणेषु च न क्वचिदप्येकरूपकारोप्ये रूपकान्तरारोप्यान्वयौपयिकस्समभिव्याहारोस्तीति नातिप्रसङ्गशङ्कावकाशः । न चैवं ‘मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजङ्गः' इति रसगङ्गाधरीयपरंपरितोदाहरणे पूर्वरूपकारोप्यस्य दुग्धस्याशनादिपदव्यवधानादुत्तररूपकारोप्ये भुजङ्गे अन्वयासंभवादव्याप्तिरिति वाच्यम् । आरोप्ये आरोप्यान्वितत्वस्य साक्षात्परंपरासाधारणस्यैव निवेशात् ॥

 नन्वेवं सति--

 सुविपुलशुभगुणजलनिधिफणधरगिरिराजपतिकृपागङ्गाम् । अवगाह्य नराश्शिशिरां न विगाहन्ते कदाऽपि तापकथाम् ॥ २०७ ॥

 इत्यत्र पूर्वरूपकारोप्यस्य जलनिधेरुत्तररूपकारोप्यायां गङ्गायां परंपरयाऽत्वयसंभवादतिव्याप्तिरिति चेन्न । लक्षणे रूपकद्वये हेतुहेतुमद्भावापन्नत्वविशेषणोपादानादेव तद्वारणात् । अत्र हि प्रदर्शितरूपकद्वयस्य न हेतुहेतुमद्भावः । यद्यपि ‘पर्यङ्को राजलक्ष्म्याः' इति पद्यं मालापरंपरितोदाहरणतयोपन्यस्य अत्र ‘क्ष्मासौवदल्लः’ इति परंपरितमप्येकदेशविवर्तीति सर्वस्वकारोक्तेस्तादृशैकदेशविवर्तिपरंपरितरूपकेऽव्याप्तिः । तत्र क्ष्मायां राजपत्न्यारोपस्यार्थतया सौविदल्लरूपे उत्तररूपकारोप्ये पूर्वरूप-