पृष्ठम्:अलङ्कारमणिहारः.pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
120
अलंकारमणिहारे

वळा' इत्यादौ अतिव्याप्तिर्दुर्वारा । तत्रापि कापालिकीत्वरूपणे भस्मादिरूपणस्य नियमेन हेतुत्वाश्रयणसंभवात् । यथा हि ‘विद्वन्मानसहंस’ इत्यादौ राज्ञि हंसत्वरूपणं विद्वन्मानसे मानससरस्त्वरूपणमन्तरा नोपपद्यते, तथा रात्र्यां कपालिकीत्वरूपणमपि ज्योत्स्नादौ भस्मादिरूपणमन्तरा नोपपद्यत इति साम्यात् ।‘विद्वन्मानसहंस’ इत्यादावेवैकरूपकस्य नियमेन रूपकान्तरसापेक्षत्वं नान्यत्रेत्यस्य तु शपथमात्रसाध्यत्वादिति परास्तम् । तादृशलक्षणस्यास्मदुपदर्शितलक्षण एव पर्यवसानस्याभिमतत्वात् आरोप्ये आरोप्यान्तरान्वयस्थले हि एकारोप आरोपान्तरे नियमेन हेतुर्भवतीति तल्लक्षणस्य तथा पर्यवसानं संभवति ।

 एतेन –‘आरोपद्वयमात्रपर्यवसितं परम्परितं सावयवं तु न तथा' इति केषांचिदुक्तिरनादरणीया । ‘विद्वन्मानसहंस' इत्यादौ प्रकाशाद्युदाहृते परंपरितरूपके आरोपबहुत्वस्यैव वर्तमानतया अव्याप्तिप्रसङ्गात् । न चात्र पद्ये विद्वन्मानसहंसादिभागे प्रत्येकं रूपकद्वयमात्रत्वमस्त्येवेति नाव्याप्तिः । अत एवैतत्पद्यं परंपरितरूपकबाहुळ्यान्मालारूपपरंपरितोदाहरणत्वेनोपात्तमिति वाच्यम् । एवं सति ‘ज्योत्स्नाभस्म' इति पद्येऽपि 'बिभ्रती तारकास्थीनि, रात्रिकापालिकीयम्' इत्यंशे रूपकद्वयमात्रत्वसंभवेनातिप्रसङ्गापातः । न च रूपकान्तरनिरपेक्षहेतुहेतुमद्भावापन्नरूपकद्वयमात्रत्वमेव परंपरितलक्षणम् । तथाच ‘ज्योत्स्नाभस्म’ इत्यादौ कापालिकीरूपके यथा ‘तारकास्थीनि' इति रूपकसापेक्षत्वं तथा ‘ज्योत्स्नाभस्म’ इत्यादिरूपकसापेक्षत्वस्यापि सत्त्वान्नातिप्रसङ्गः । ‘विद्वन्मानसहंस’ इत्यादौ च हंसादिरूपके प्रत्येकं मानसरूपकाद्येकैकरूपकसापेक्षत्वमेवेति लक्षण-