पृष्ठम्:अलङ्कारमणिहारः.pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
111
रूपकसर‌ः‍‌‌‍ (७)

मानतावच्छेदकावच्छिन्नारोपे अभेदरूपकं उपमानतावच्छेदकधर्मारोपे ताद्रूप्यरूपकमित्येवाश्रयणीयम् । आद्यस्योदाहरणं ‘मुखं चन्द्रः, मुखमपरश्चन्द्रः’ इत्यादिकं विषयिविषयवाचकपदयोस्सामानाधिकरण्यस्थलं सर्वमेव । द्वितीयस्य तु ‘आस्ये पूर्णशशाङ्कता’ इत्यादीति ध्येयम् । तत्राप्यभेदरूपकं द्विविधम् । अभेदस्य संसर्गत्वे एकं पदार्थत्वेऽपरम् ॥

 यथा--

 चिन्तामणिरसि भजतां सन्तानो वा तरुस्त्वमब्जाक्ष । हरिनीलाद्वैतं तव तनुरेत्यथवा तमालतादात्म्यम् ॥ १९१ ॥

 चिन्तामणेर्हरिनीलाद्वैतं सन्तानतरोस्तमालतादात्म्यमप्याश्चर्यमिति भावः । अत्र त्वं चिन्तामणिः संतानतरुर्वेत्येतदाद्यस्योदाहरणम् । अत्र ह्यभेदस्संसर्गरूपः । द्वितीयस्य तु तव तनुर्हरिनीलाद्वैतं तमालतादात्म्यं वा एतीति । अत्र ह्यभेदः पदार्थरूपः । एवं ‘मुखं चन्द्रः’ इत्यादौ 'चन्द्राद्वैतमेति’ इत्यादावप्यभेदस्य संसर्गरूपता पदार्थरूपता च द्रष्टव्या । अनयोश्चाभेदताद्रूप्यरूपकयोरुपपाद्योपपादकभावोऽपि संभवति ॥

 यथा--

 हारास्तवाम्बुधाराः कनकपटीयं तटित्प्रभारभटी । अम्बुरुहेक्षण तत्त्वय्यम्बुदतां नियतमेव जानीमः ॥ १९२ ॥

 मन्दस्मिते सुधात्वं मन्दारत्वं तवाच्युत कटाक्षे । फाले बालेन्दुत्वं भाति तदम्भोनिधेरभिन्नस्त्वम् ॥