पृष्ठम्:अलङ्कारमणिहारः.pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
110
अलंकारमणिहारे

सः जनिशरणं जन्मगृहम् । अब्धेश्चन्द्रोदयस्य प्रसिद्धेः, पक्षे 'चन्द्रमा मनसो जातः’ इति श्रुतेः । अत्रापरं जलधिमिति प्रसिद्धजलधेर्भेदमाविष्कृत्य तस्य च प्रसिद्धजलधिकार्यकारित्वमात्रवर्णनेनोत्कर्षापकर्षयोरवर्णनादनुभयताद्रूप्यरूपकम् । तदेवं कुवलयानन्दकृतां मतमनुरुध्योभयविधत्वं रूपकस्य तत्राप्येकैकस्य त्रैविध्यं च वर्णितम् ॥

 मङखुक-मम्मट-भामहप्रभृतयः प्राचीनास्तु अभेदरूपकमेवाङ्ग्यकार्षुः न तु ताद्रूप्यरूपकम् । तेषामयमाशय उन्नीयते--अभेदरूपकं ताद्रूप्यरूपकमिति न युज्यते विभागः, 'मुखमपरश्चन्द्र' इत्यादावप्यभेदरूपकस्यैव संभवात् । न चोपमानतावच्छेदकावच्छिन्नाभेदभाने ह्यभेदरूपकं, उक्तस्थले चापरपदेन चन्द्रभेदः स्यैव प्रतीत्या चन्द्राभेदभानासंभवात्कथमभेदरूपकं स्यात् । अतश्चन्द्रपदस्य तत्र चन्द्रकार्यकारित्वावच्छिन्नपरतामाश्रित्य ताद्रूप्यारोपात् ताद्रूप्यरूपकमेवाभ्युपेयमिति वाच्यम् । अपरादिपदस्येदृशस्थले स्वार्थान्वयितावच्छेदकाश्रययत्किश्चिद्व्यक्तिप्रतियोगिकभेदमात्रबोधकत्वव्युत्पत्तेः प्रसिद्धचन्द्रव्यक्तिभेदभानेऽपि चन्द्रसामान्यभेदाभानाच्चन्द्रद्वित्वभ्रममूलकस्य मुखादौ चन्द्रत्वावच्छिन्नाभेदभानस्य संभवात् । अन्यथा चन्द्रपदस्यात्र चन्द्रकार्यकारिपरत्वेऽपि चन्द्रकार्यकारित्वेन प्रसिद्धचन्द्रासाधारणेन रूपेण प्रसिद्धचन्द्रव्यक्त्यभेदभानस्यैवाभ्युपेयतयाऽनुपपत्तितादवस्थ्यात् । चन्द्रकार्यकारितायाः प्रसिद्धचन्द्रेतरसाधारण्ये च मुखे तदारोपस्यैवानावश्यकतया रूपकस्यैवाप्ररोहात् । एवं ‘मुखं चन्द्रकार्यकारि’ इत्यादावपि ताद्रूप्यरूपकप्रसङ्गः । तस्मादभेदारोप एव रूपकं न तु ताद्रूप्यारोप इति । यदि तु अभेदरूपकं ताद्रूप्यरूपकमिति विभागसंगमनमावश्यकमित्यागृह्यते तदा उप-