पृष्ठम्:अलङ्कारमणिहारः.pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
112
अलंकारमणिहारे

 अत्राद्ये पद्ये अभेदरूपकमुपपादकं ताद्रूप्यरूपकमुपपाद्यं, द्वितीये तु तद्विपरीतम् । तत्राप्याद्ये उदाहरणे उपपादके रूपके अभेदस्संसर्गरूपः, द्वितीये तूपपाद्यरूपके स पदार्थरूप इति भिदा । तदेवं कुवलयानन्दकृद्भिः प्रदर्शितस्य रूपकविभागस्य संगमनेऽपि तदुपदर्शितानि ‘वक्त्रेन्दौ तव सत्ययं यदपरश्शीतांशुरुज्जृम्भते । साध्वीयमपरा लक्ष्मीः' इत्यादिपद्यानि ताद्रूप्यरूपकस्यानुदाहरणान्येवेत्यलं दूरधावनेन ॥

प्राचां मते विभागोपि रूपकस्य निरूप्यते ।
त्रिधा साङ्गं निरङ्गं च परंपरितमित्यदः ॥ ३६ ॥
समस्तवस्तुविषयमेकदेशविवर्ति च ।
इति सावयवं चापि द्विविधं तत्र रूपकम् ॥ ३७

 अदः रूपकं साङ्गं सावयवं निरङ्गं निरवयवं परंपरितमिति त्रिधा त्रिप्रकारम् । तत्र उक्तरूपकत्रयमध्ये सावयवं रूपकं समस्तवस्तुविषयं एकदेशविवर्ति चेति द्विविधम् ॥

 सावयवं लक्षयति--

यत्परस्परसापेक्षनिष्पत्तीनां निबध्यते ।
रूपकाणां तु संघातो भवेत्सावयवं हि तत् ॥

 अन्योन्यसापेक्षनिष्पत्तीनां रूपकाणां संघातस्सावयवरूपकमित्यर्थः ॥

 तत्रापि समस्तवस्तुवृत्ति सावयवं लक्षयति--

निरूपणेऽवयविनोऽवयवानां च शब्दतः ।
समस्तवस्तुविषयं भवेत्सावयवं हि तत् ॥ ३९ ॥