पृष्ठम्:अलङ्कारमणिहारः.pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
5
उपोद्घातः

'क्रियावानेष ब्रह्मविदां वरिष्ठः' इति मुण्डकश्रुतिः प्रत्यभिज्ञाप्यते । पक्षे--अलङ्क्रियावताम् आलङ्कारिकाणां, अन्यत्सुगमम् । अत्रापि श्लेषमहिम्ना विवक्षितं सूचितम् ॥ ७ ॥

 साधुकलिताल्पसारावज्ञं यामुनमुनीन्द्रमामनवै । छेकोक्तिपरिग्रन्थितसाक्षेपप्रत्यनीकवक्रोक्तिम् ॥ ८ ॥

 साधु यथा स्यात्तथा कलिता कृता अल्पसारेषु ऐहिकफलसाधनकर्मप्रतिपादकवेदपूर्वभागेषु अवज्ञा तिरस्कारो येन तं 'असारमल्पसारं च सारं सारतरं त्यजेत्’ इत्युक्तरीत्या परित्यक्ताल्पसारमित्यर्थः । अनेन असाररूपबाह्यकुदृष्टिशास्त्रावज्ञानं कैमुतिकन्यायसिद्धम् । इदं आमुष्मिकफलप्रतिपादकवेदभागरूपसारावज्ञायाः आत्मतत्प्राप्तिसाधनमात्रप्रतिपादकांशलक्षणसार‌तरावज्ञायाश्चोपलक्षणम् । अनेनैव 'भजेत्सारतमं शास्त्रे रत्नाकर इवामृतम्' इत्युक्तरीत्या परमात्मतत्प्राप्तिसाधनप्रतिपादकवेदप्रदेशरूपसारतमनिष्ठता चार्थसिद्धा । छेकाः विदग्धाः याः उक्तयः ताभिः परिग्रन्थिताः बाधिताः क्रान्ता इति वा, साक्षेपाः आक्षेपसहिताः प्रत्यनीकानां प्रतिमतकथकानां वक्रोक्तयः अनृजुव्याहाराः येन तं तथोक्तं ‘ग्रन्थितं गुम्भिते क्रान्ते हिंसिते च त्रिलिङ्गकम्' इति मेदिनी । पक्षे--साधु यथा स्यात्तथा क लिताः रचिताः अल्पं सारः अवज्ञा चेत्येता अलङ्कृतयो येन तं, छेकोक्तिः तन्नामालङ्कृतिः तया परिग्रन्थिते गुम्भिते मिश्रिते इत्यर्थः । आक्षेपेण तन्नाम्नाऽलङ्कारेण सह वर्तेते इति साक्षेपे, प्रत्यनीकं च वक्रोक्तिश्चेत्येते अलङ्कृती येन तं तथोक्तम् । यामुनमुनीन्द्रं आमनवै ध्यायानि । मनु अवबोधने, लोट्, उत्तमैकवचनम् । सूचनं पूर्ववत् ।