पृष्ठम्:अलङ्कारमणिहारः.pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
6
अलंकारमणिहारे

 यश्चक्षुश्श्रुतिनाथस्त्रातुं वेदान्मुनित्वमभिपद्य । श्रुतिचक्षुरग्रगण्यो बभूव तमिमं भजेय भाष्यकृतम् ॥ ९ ॥

 चक्षुश्श्रुतिनाथः शेषः वेदान् त्रातुं अर्थतः शब्दतश्च रक्षितुं मुनित्वं रामानुजमुनित्वं पतञ्जलिमुनित्वं चाभिपद्य प्राप्य श्रुतिचक्षुषां वेदविदां अग्रगण्यो बभूव । आदौ चक्षुश्श्रुतिनाथः मुनित्वे श्रुतिचक्षुरग्रगण्य इत्येतदेव वैलक्षण्यमिति भावः । भाष्यकृतं श्रीभाष्यकारं महाभाष्यकारं च भजेय ॥ ९ ॥

 स्मृतिसन्देहभ्रान्तिमदसंगतिविकल्पमीलनोल्लासी । वेदान्तदेशिकमणिर्मोदान्विदधातु जगदलङ्कारः ॥ १० ॥

 स्मृतिषु मानवादिधर्मसंहितासु सन्देहभ्रान्तिमतां संशयभ्रमवतां कौतस्कुतानां असङ्गतयः सङ्गतिरहिताः असम्बद्धा इत्यर्थः । ये विकल्पाः तेषां मीलने निरासे उल्लासी । पक्षे—स्मृत्याद्युल्लासान्तास्सप्तालङ्काराः ते सन्त्यस्मिन्निति तथोक्तः । इदमुपलक्षणं सर्वालङ्कारवत्तायाः ॥ १० ॥

 श्रीब्रह्मतन्त्रकलिरिपुगुर्वास्थानीधुरन्धरानखिलान् । हृदि भावयेऽत्युदारान्वसुधालङ्कारमणिहारान् ॥ ११ ॥

 वसुधालङ्कारमणिहारानित्यनेन अलङ्कारमणिहार इति विवक्षितप्रबन्धनामसूचनम् ॥ ११ ॥