पृष्ठम्:अलङ्कारमणिहारः.pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
103
प्रतीपालंकारसरः (६)

 कः अर्थः प्रयोजनं यस्य स किमर्थः तस्य भावः कैमर्थ्यं निरर्थकत्वम् । उपमेयस्यैवोपमानकार्यधूर्वहतया उपमानकैमर्थ्यमुपमानप्रातिलोम्यात्पञ्चमं प्रतीपम् ॥

 यथा--

 गुणवशितपरब्रह्मणि फणिशिखरिणि विरचिताद्भुतानन्दे । निवसन्तः खलु सन्तः परमव्योम्नाऽपि किमिति मन्यन्ते ॥ १८० ॥ ।

 यथा वा--

 पद्मावत्याः पाणिं परिगृह्णानः फणाभृदचलेशः । लीलाब्जमपि निरास्थो निरास्थदेतत्किमर्थमिति ॥ १८१ ॥

 अत्र क्रमेण उपमेययोः फणिशिखरिपद्मावतीपाण्योरेव निरतिशयानन्ददानादिकार्यधूर्वहतया उपमानभूतयोः परमव्योमलीलाकमलयोः कैमर्थ्यमुक्तम् ॥

 तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । तुरीयस्त्वनुक्तवैधर्म्ये व्यतिरेके । पञ्चमस्तु केषांचिदाक्षेपः । तथाहि--निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । न ह्याद्ये प्रतीपे मुखमिवकमलमित्यादौ सादृश्यस्यानिष्यत्तिरसौन्दर्यं वाऽस्ति । येनोपमातो बहिष्कृतिस्स्यात् । सौन्दर्यविशेषस्य त्वयाऽप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेत्यस्ति वेदानुशासनम् । न