पृष्ठम्:अलङ्कारमणिहारः.pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
104
अलंकारमणिहारे

चोपमाविरुद्धवाचिनः प्रतीपशब्दस्य महिम्नैव तथाविधं सादृश्यमुपमेति शक्यं वदितुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवंचाद्यं प्रतीपं प्रसिद्धोपमावदुपमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव, उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेन्न तूपमासामान्यात् । तदनुस्यूतत्वेनैव तत्प्रतीतेः । न हि शर्करा माधुर्यातिशयेन पार्थिवान्तराद्विलक्षणेत्यपार्थिवी भवेत् । अपि च यद्युपमानोपमेययोस्तिरस्कारोऽलङ्कारताप्रयोजकस्स्यात्तर्हि तत्पुरस्कारोऽपि तथा स्यात् ॥

 यथा--

 ननु पातकिनो वयमित्यनुतापं मा स्म दुर्जनाः कुरुत । कति कति न भवादृक्षाः कलाविहास्मृतसरीसृपगिरीशाः ॥ १८२ ॥

 अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलं, तस्य दृप्तत्वाद्यविवक्षणात् । किन्तु तदनुतापशान्तिः, एवं च फलवैलक्षण्यमात्रेणालङ्कारान्तरत्वं ब्रुवाणेनास्याप्यलङ्कारत्वमभ्युपेयं स्यात् प्रतीपषष्ठप्रभेदत्वं वा । किंच त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथगलङ्कारता स्यान्न तु प्रतीपभेदत्वं, प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्षणाभावात् । अन्यतमत्वं तु दूषणसहस्रकबळितत्वादलक्षणमेव । उपमालक्षणं तु सर्वसाधार णम् । पञ्चमप्रभेदस्तु येषां मतेनाक्षेपस्तेषामस्तुनामालङ्कारः । तुरीयस्य तूक्तैव गतिः ॥

इत्यलङ्कारमणिहारे प्रतीपालङ्कारसरः षष्ठः.