पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना. सिन्धोःशानदयाभ्यां सिन्धुरिव सिन्धुस्तस्य अगाधस्य यस्य अनघाः गुणाः सन्ति स भगवान् श्रिये अमृताय व सेव्यतामाराध्यताम्-इत्यभिप्रायकं विस्तरेणान्वयं प्रय, विशेष्यानिर्देशप्रयुक्तदोषपरिहारायोक्तं रायमुकुटीकारेण-"अत्रानुक्तोऽपि वाक्ये लक्ष्या- यो शानदयादिभिः स्फुटं प्रतीयते । यथा- 'अयमुदयति मुद्रामखनः पधिनीनामुदय- गिरिवनालीबालमन्दारपुष्पम् '-इत्यादावनुकोऽपि सूर्य उदयसिना पद्ममुद्राभअनाविना च लक्ष्यते । अन्ये तु-कचिद्विशेषणमपि विशेष्यप्रतिपत्तिकरम्, यथा-निधानगर्मामिव सागराम्बराम्' इति । एवमिहापिसानदयासिन्ध्वादिविशेषणं विशेष्यप्रतिपत्तिकरमि- त्यदोष इत्याहुः । इह तु बुद्धादिपदोल्लेखे कृते दक्षिणापथपथिकसानामनुपादेयता स्यात, कृष्णादिपदोदेशे त्वनुपादेयत्वात् सत्कालबलितमदोबुराणां बौद्धानामित्युभयसा- धारण्येनोपादेयतार्थ मुख्यानुदेशा" इति । अमरदीपिकायामप्युक्तम्-" समुद्रपक्षे सर्वज्ञानलक्षणां धियं बुद्धिं रान्ति गृहन्तीति धीराः देवाः । बुद्धपक्षे भो धीराः पण्डिताः स बुद्धः सेव्यताम्" इति । त्रिकाण्डरहस्ये रामनायेनाप्युकम्- “यदाऽसौ कविरमरसिंहो प्रन्थमेतं चकार - दानीमनाइववेदपथानां मदोबुराणामविप्राबल्यमासीत् । स एव कृष्णादिपदोल्लेखे वेषामनुपादेयता स्यात्, बुद्धादिपदोलेखे तु दक्षिणापथप्रवृत्तानामनुपादेयता स्यादित्यु- भवेषां तत्रोपादेयतार्यमस्य मालश्लोकस्य वारशी गूढार्थता" इति । अमरकोसोद्धाटने क्षीरस्वामिनाऽपि- "यस्य भगवतो ज्ञानदययोः बोधकरुणयोः सिन्धोः समुद्रस्येव गम्भीरस्य अनघाः निष्पापाः गुणाः क्षान्त्यादयो बोधिपक्ष्याः सप्त- त्रिंशत्" इति प्रथमश्लोकव्याख्यानावसरे उक्ला द्वितीयश्लोकस्यावतरणं दत्तम्-" इति अन्यारम्भेऽभीप्सितसिद्धिहेतुं जिनमनुस्मृत्य श्रोतृप्रोत्साहनार्थ स्वप्रवृत्तिप्रयोजनं साभि- धेयमादिवाक्येनाह समाहत्येति"-इति । एवं च यत्तूक भानुदीक्षितेन "स्वामी तु (क्षीरस्वामी तु) 'जिनमनुस्मृत्य'-इति स्मरणलक्षणं मङ्गलमाह, सन्न । जिनवाचकपदस्यात्रादर्शनात् । सामान्यशब्दानां जिन- क्षणविशेषपरत्वेन ब्याख्यानस्य वैदिकानामनुचितलात, अमरकर्तुः (नामलिङ्गानु- शासनकर्तुः) जैनत्वे प्रमाणाभावाच "- इति, तत्तु अनादेयमेव । जिनवाचकपदानुप- म्यासे कारणस्य प्राचीन रायमुकुटीकारादिमिरुतस्योपदर्शितत्वात, सामान्यशब्दानां जिनलक्षणविशेषपरत्वेन व्याख्यानस्य बौद्धग्रन्थव्याख्याने प्रवृत्तानां वैदिकानामपि अपितत्वात् । प्रकृतग्रन्थकर्तु नत्वे प्रमाणस्य प्रागुपपादितत्वाति विघारिभिर्विचार्यम् । यद्यपि केनचित्कविना कोशपरिगणनावसरे 'अमरोऽयं सनातनः' इत्युक्तम्, तथा हि- "मेदिन्यमरमाला च त्रिकाण्डो रनमालिका । रन्तिदेवो भागुरिश्व व्याडिः शब्दार्णवस्तथा ॥ द्विरूपच फलिझम रमसः पुरुषोत्तमः । दुर्गोऽभिधाममाला च संसारावर्तशाश्वती॥ विश्वो बोपालितचैव वाचस्पतिहलायुधौ। हायककी साहसाको विक्रमादित्य एव च ॥ Digitized by ,