पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना. हेमचन्द्रश्च रुद्रमाप्यमरोऽयं सनातनः । एते कोशाः समास्याता संख्या पशितिः स्मृता ॥" इति । वथापि तत्र 'सनातनः' इत्यस्य विश्वहेमचन्द्राद्यपेक्षया प्राचीनो नतु व्याडिभागु- र्यायपेक्षयेत्यर्थः । प्रकृतकोशापेक्षया पूर्व बहूनां कोशानां विद्यमानत्वात् । “समाहत्या- न्यतत्राणि" इति (१ पृष्ठे) वदताऽमरसिंहेन खयं स्पष्टीकृतत्वात् । व्याडे. परमप्रा- चीनत्वे प्रमाणं तु महर्षिपतखल्यादिप्रणीतं महाभाष्यादिकम् । तथा हि-"संग्रहे एत- प्राधान्येन परीक्षितम्" इति महाभाष्यम् (१ अ०, १ पा०, १ आ०)। संग्रहे इति। प्रन्थविशेषे इति कैयटः। प्रन्थविशेष इति । संग्रहो व्याडिकृतो लक्षलोकसंख्यो ग्रन्थ इति प्रसिद्धिरिति नागोजीभट्टकृत विवरणम् (महाभाष्यप्रदीपोहयोतः)। किंच, प्राग्वेदप्रा- विशाख्ये " व्याडेः सर्वत्राभिधानलोपः" -इवि शौनकोक्किरपि प्रमाणमिति द्रष्टव्यम् । अथ यान्यमरकोशटीकासु अन्यत्र च कोशानां कोशकाराणां वा नामान्युपलभ्यन्ते तान्यत्र बालप्रतिपस्यर्थ वर्णक्रमेण लिख्यन्ते- अजयः १, अनेकार्यभ्वनिमसरी २, अमिधानचिन्तामणिः । (हेमचन्द्रवतः)३, अभिधानमाला ४, अमरवचः ५, अमरमाला (अमरसिंहकता) ६, अरुणः ५, इन्दुकोशः ८, उत्पलिनी ९, ऊष्मविवेकः १०, एकाक्षरकोशः (जैनपुरुषोत्तमदेवकतः) ११, कलिङ्गः १२, कल्पतरुः १३, कल्पनुः (केशवछतः) १४, कात्यः १५, कात्यायनः १६, कोशसारः १७, गङ्गाधरः १८, गोवर्धनकोशः १९, चन्द्रकोशः २०, घरककोशः २१, तारपालः २२, त्रिकाण्डशेषः (जैनपुरुषोत्तमदेवकतः) २३, त्रिविक्रमः २४, दामोदरकोशः २५, दुर्गकोशः २६, देशिकोशः २७, द्विरूपकोशः २८, धनंजयः २९, धनपालः ३०, धन्वन्तरिः ३१, धरणीकोशः (धरणीदासकृतः) ३२, धर्मदासः ३३, नानार्थध्वनिमजरी ३४, नानार्थरबमाला (भास्करकृता) ३५, नामनिधानम् ३६, नाममाला ३५, नामलिङ्गानुशासनम् (अमरसिंहकतम् ) ३८, पदरमावली ३९, पालकोशः ४०, पुद्गलकोशः ४१, भट्टमल्लः ४२, भरतमाला ४३, भागुरिकोशः ४४, भुमकोशः ४५, भोगीन्द्रकोशः ४१ महकोशः ४७, महीपकोशः ४८, माधवकोशः ४९, मुकुट: ५०, मुक्तावली (श्रीधरकृता)५१, मुनिकोशः ५२, मेदिनी ५३, यादवः ५४, रनकोशः ५५, रनमाला (दण्डाधिनाथोपनामक इरुगप्पकृता)५६, रनमाला (हला- युधकता) ५७, रन्तिदेवः ५८, रभसः ५९, राजदेवः ६०, राजमुकुटः ६१, रुद्रकोशः ६२, वररुचिः६३, वाचस्पतिः ६४, विक्रमादित्यः ६५, विश्वकोशः ६६, विश्वप्रकाशः६५, विश्वरूपः ६८, विश्वलोचनः ६९, वैजयन्ती ७०, वो [बो] पालितः ७१, व्यादि.७२, शब्दरमावली (मथुरेशकृता) ७३, शब्दार्णवः७४, शब्दार्थचिन्तामणिः ७५, शाश्वतः ७६, शुभाङ्कः ७७, संसारावर्तः ७८, सज्जनकोशः ७९, सर्वधरः ८०, साहसाङ्कः ८१, मुधा ८२, सुभूतिकोशः ८३, सोमनन्दिः ८४, हरकोशः ८५, हारावली (जैनपुरुषो- समदेवकृता) ८६,-इति ॥ मळकीकरोपनामा भवामनाचार्यशर्मा Digitized by Google