पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रस्तावना. । अयं हि नामलिशानुशासनं नाम कोशः अमरसिंहेन विरचितः, "इत्यमरसिंहकतो नामलिङ्गानुशासने" -इति प्रत्येककाण्डसमाप्तौ स्वयमेव लिखितत्वात् । परं तु अयम- मरसिंहः कदाऽऽसीदिति प्रभस्योत्तरतया निस्वाब्दानामेकादशशतकस्य (सन्म ११००) घरमभागात्पूर्वमेवासीत् इत्येतावन्मात्रमवधृत्योच्यते । यत उक्तमिताब्दकालिकेन मम्मटेन काव्यप्रकाशे सप्तमोल्लासे (३२८ पृष्ठे) "देवतानि पुंसि वा" -इत्यमरको- शप्रतीकोऽधारीति। मम्मटस्योक्तमिताब्दकालिकत्वं तु अस्मत्कृतायां काव्यप्रकाशटीकायां बालबोधिन्याख्यायामुपोद्धातप्रकरणे निर्णीतमिति तत एव द्रष्टव्यम् । केचितु; विक्रम- समकालिकोऽयममरसिंह इति वदन्ति, तथानुपदमेव स्पष्टं भविष्यति । अयममरसिंहो बौद्ध एव । तदुक्कं व्याख्यासुधाख्यया ('रामाश्रमी'-इति प्रसिद्धया) भानुदीक्षितकतया व्याख्यया समेवस्यामरकोशस्याहितपुस्तके पण्डितशिवदत्तशर्मणा- "अयममरसिंहः कदा.किंजातीयः कुत्रत्यं महीमण्डलं मण्डयांचकारेति न निश्चितम् । रा:विक्षरी देवासिदशा विबुधाः सुराः' इत्यादिना ] देवसामान्यनामा- देवरिशेषनामारभे 'सर्वशः मुगतो बुद्धो धर्मराजस्वथागतः । समन्वमद्रो भगवान् मारजिल्लोकजिजिनः' इत्यादिना बुद्धनानां लेखनेन बौद्धत्वमवसीयते । केचितु- 'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कवेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमिहरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥' -इति वैक्रमनवरमल्या- पकश्लोकतो विक्रमसमकालकत्वममरसिंहस्य वदन्ति । परे तु-'इन्द्रश्चन्द्रः काशकृत्मा- ऽऽपिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टौ च शाब्धिकाः ।। -इति पद्यानुरो. धेन पाणिनिसमन्तभद्रयोरन्तरालभवत्वं सुबते ।। अत्रेई बोध्यम्-इन क्रमबोधकम्, पाणिनिमहाभाष्यप्रवृत्तिसमकालकनिष्पत्तिकचान्द्रव्याकरणकर्तृचन्द्राचार्यस्य पाणिनि- तः प्राग्लेखनात् । अस्य वैयाकरणत्वं तु अमरसिंहो हि पापीयान् सर्व भाष्यमचूपुरत्' -इति पद्यात्सकलभाष्यतत्त्वज्ञत्वस्य (संपूर्णमहाभाष्यवत्त्वज्ञत्वस्य) प्रतीवेः प्रवीवमेव । इत्यं भजयन्तरेणोकिस्तु बौद्धत्वेन सकलवैदिकविरुद्धत्वात्" इति । बौद्धत्वादेव नानार्थवर्गे 'धर्मराजौ जिनयमौ'-इति श्लोके जिनशब्दस्य पूर्वनिपान निर्देशोऽमरसिंहेन कृतः । तथाहि-'जिनयमौ'-इत्यत्र 'तापसपर्वती' इत्यादाविष "अल्पावरम्" (२२२॥३४)-इत्यादिसूत्राणामप्राप्त्या "अभ्यहित च" इति वार्तिके. नैव जिनशब्दस्य पूर्वनिपातः । अभ्यर्हितत्वं च पूज्यत्वम, तच बौद्धानां मते बुद्धापरप- यस्य जिनस्य देवविशेषत्वात्स्पष्टमेव । यद्ययममरसिंहो बौद्धो न स्यात, किंतु वेदा- नुसार्येव स्यात्तदा वैदिकमते जिनापेक्षया यमस्यैवाभ्यहितत्वात् छन्दोमगाद्यभावाच 'यमजिनौ'-इत्येव वदेत् । किंचास्प बौद्धत्वे बहवः प्राचीना अमरकोशटीकापन्था अप्यानुकूल्यं भजन्ते। तथाहि-'यस्य शानदयासिन्धो'-दति प्रथमश्लोकन्याख्यानावसरे 'हे धीराःमानदया- Dighized by Google