पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27-30 प्रथम काण्डम्. ४] प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥ देवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः॥ हेतुर्ना कारणं बीजं निदान त्वादिकारणम् ॥ २८॥ क्षेत्रज्ञ आत्मा पुरुषः प्रधान प्रकृतिः स्त्रियाम् ॥ विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥ २९ ॥ जनुर्जननजन्मानि जनिरुत्पत्तिरुद्धवः॥ प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३०॥ (जातिर्जातं च सामान्य व्यक्तिस्तु पृथगात्मता॥) (१) चित्तं तु चेतो हृदयं खान्तं हृन्मानसं मनः॥३१॥ ॥ इति कालवर्गः ॥४॥ न्तरेण सामानाधिकरण्येऽपि खलिङ्ग न जहति । "प्रशंसावचनैश्च"इति कृष्णसर्पवा- प्यपादिवत् नित्यसमासः । यथा प्रशस्तो ब्रामणो ब्राह्मणमतल्लिका । प्रशस्ता गौर्गोमचर्चिका । गोप्रकाण्डम् । बामणोद्धः । कुमारीतल्लजः । अबः एत्यनेन सुखम्। “इण गतौ" घप्रत्ययः । शुभावहो विधिः शुभोत्पादकदैवं सोऽय उच्यते अयोऽकारान्त एकम् ॥२७॥ दैवं दिष्टंभागधेय भाग्य नियतिः। नियम्यतेऽनया क्तिन् । “नियतिनियमे दैवे" इति विषः। विधिः। षट् प्राक्तनकर्मणः। नियतिः स्त्री। विधिः पुंसि । हेतुः कारणं बीजं त्रयं हेतुमात्रस्य । हेतुः पुंसियदादिकारणं तभिदान एकमुपादानकारणस्य ॥२८॥क्षेत्रज्ञः क्षीयते इति क्षेत्र शरीर तजानाति। "ना अवबोधने" "आतो नुप" इतिकः । "आत्मा पुसि खभावेऽपि प्रयलमनसो- रपि। धृतावपि मनीषायां शरीरब्रह्मणोरपि" ॥१॥ पुरुषः अयं शरीराधिदेव- तस्य । प्रधान प्रकृतिः द्वे सत्त्वादिगुणसाम्यावस्थायाः। यः कालिको विशेषः कालकतो देहादेविशेषः यौवनादिरवस्योच्यते एकम् । सत्त्वं रजः तमः एते गुणाः प्रकृतेधर्माः एकैकम् । रजस्तमसी सान्ते ॥ २९॥ जनुः जनने जन्म जनिः उत्पत्तिः उद्भवः षट्दै जन्मनः । जनुः सान्तम् । जनिः स्त्री। प्राणी चेतनः जन्मी जन्तु: जन्युः शरीरी पई प्राणिनः ॥३०॥ जातिरित्यादि पर्व केचिदत्र पठन्ति इति टीकाकारेण लिखित परंतु मूल एवैतत्पद्यं दृश्यते । जातिः जातं सामान्य अयं घटत्वादिजातेः । व्यक्तिः व्यज्यतेऽनया व्यक्तिः । “अजू व्यक्त्यादौ " १ इदमधे तालपत्रपुस्तके नास्ति । Digitized by Google