पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22-26 २८ सटीकामरकोशस्प [कालव: संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ।। २२ ।। अस्त्री पङ्क पुमान्पाप्मा पापं किल्बिषकल्मषम् ॥ कलुषं वृजिननोऽधमहो दुरितदुष्कृतम् ॥ २३ ॥ स्थाद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः॥ मुत्पीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः ॥ २४ ॥ स्थादानन्दथुरानन्दः शर्मशातसुखानि च ॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥ भावुकं भविक भव्यं कुशलं क्षेममस्रियाम् ॥ शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ ॥ 1 ! संवर्तः प्रलयः कल्पः क्षयः कल्पान्तः पञ्च प्रलयस्य ॥ २२ ॥ पर पाप्मा पाप किल्बिर्ष कल्मष कलुष वृजिन एनः अब अहः “अन्धः" दुरित दुष्कृतं द्वादश पापस्य । सत्र पर क्लीनसोः। पाप्मा नकारान्त पुंसि । शेष क्लीवे ॥२॥धर्म पुण्यं श्रेयः सुकृतं वृषः पञ्चकं सुकृतस्य । तत्र धर्मः क्लीवपुंसोगवृषः (सि । मुत् प्रीतिः प्रमदः हर्षः प्रमोदः आमोदः समदः ॥२४|| आनन्दधुः "दुनदि समृद्धौ" "द्वितोऽथुच्"। आनन्दः शर्म शातं "दन्त्यादिर्वा" सुखं द्वादश हर्षस्य । तत्र प्रीति- साहचर्यान्मुदपि खियां दकारान्तः । श्वाश्रेयसम् । आगामि श्रेयो यत्र । "वसो वसीय श्रेयसः" इत्यच् । शिवम् । शिवं च मोक्षे क्षेमे च महादेवे सुखे जले। "शिवो योगान्तरे वेदे गुग्गुलौ बालके हरे" इति विश्वः । भद्रं (भन्द) “मन्द भद्रं शिव तथा" इति त्रिकाण्डशेषः। कल्याणं माल शुभम् ॥२५॥ भावुक भविक भव्य कुशल क्षेमं शस्तं द्वादश कल्याणमात्रस्य।तत्र क्षेमं शस्तं च पुनपुंसकयोः। श्वाश्रेयसमिति चतुरक्षरम् । पापपुण्यशब्दौ तथा सुखादिशब्दाः पाश्रेयाशिव- भद्रादयः शस्तान्ताः द्रव्ये विशेष्ये वर्तमानास्त्रिषु विशेष्यलिका इत्यर्थः । यथा पापा स्त्री। पापः पुमान् । पाएं कुलमित्यादि ॥२६ ।। मतल्लिका मचर्चिका प्रकाण्ड "प्रकाण्ड" पुंस्यपि । “प्रकाण्डो न स्त्री विटपे मूलशाखान्तरे तरोः । शस्तः" इति मेदिनी । “अस्त्री प्रकाण्डो विटपे तरुस्कन्धप्रशस्तयोः" इति रमसः । उद्धः तल्लजा अमूनि पञ्च प्रशस्तवाचकानि । एते तु पञ्च नित्यं द्रव्ये एव लिया. Digitized by Google