पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० सटीकामरकोशस्य [धीवर्गः बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः॥ प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञपिचेतनाः ॥ १॥ धीर्धारणावती मेधा संकल्पः कर्म मानसम् ।। ("अवघानं समाधान प्रणिधानं तथैव च ॥४)(१) चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा ॥२॥ ("विमर्शो भावना चैव वासना च निगद्यते ॥") (२) अभ्याहारस्तर्क ऊहो विचिकित्सा तु संशयः॥ संदेहदापरौ चाथ समौ निर्णयनिश्चयौ ॥३॥ मिथ्यादृष्टिनास्तिकता व्यापादो द्रोहचिन्तनम् ॥ समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिभ्रमः॥४॥ क्तिन् । पृथगात्मता द्वे घटादिव्यक्तः। चितं चेतः हृदयं स्वान्तं हृत् मानस मनः सप्तकं चित्तस्य। हर दकारान्तः॥३१॥ इति कालवर्गः॥४॥ बुद्धिा मनीषामनस ईषा। ईप गत्यादिषु, शकन्ध्वादिः। धिषणा धीः प्रज्ञा शेमुषी शेः मोहस्तं मुष्णाति। "मुष स्तेये" । शीडो विच् । “मूलविभुज" इति सुषेः कः । मतिः प्रेक्षा उपलन्धिः चित् संवित् प्रतिपत् शतिः चेतना चतुर्दश बुद्धेः । तत्र चित् तान्तः । संवित् प्रतिपत् च दान्तः ॥१॥ या धारणावती धीः सा मेधा एकम् । यन्मानस कर्म मनोव्यापारः स संकल्पः एकम् । अवधानादि त्रयं समाधानस्य । चिचा भोगः मनस्कारः द्वे मनसः सुखादौ तत्परतायाः। चर्चा संख्या विचारणा त्रयं प्रमाणैरर्थपरीक्षणस्य ॥२॥ विमर्शादित्रयं पूर्वानुभूताविसरणस्य । अध्या- हारः तर्कः ऊहः त्रयं तर्कस्य । अपूर्वोत्प्रेक्षणं तर्कः । विचिकित्सा विपूर्वाद कितः समन्तादकारः। संशयः संदेहः द्वापरः द्वौ परौ प्रकारौ यस्य पृषोदरादि- वादात्वम् । चत्वारि संशयज्ञानस्य । यथा स्थाणुर्वा पुरुषो वेति संशयः। निर्णयः निश्चयः द्वे निश्चयज्ञानस्य ॥३॥ मिथ्यादृष्टिः नास्तिकता द्वे परलोकाभाववादि- ज्ञानस्य । नास्ति परलोक इति मतिर्यस्य तस्य भावो नास्तिकता । व्यापादः द्रोहचिन्तनम् । परद्रोहचिन्तनस्य । सिद्धान्तः राद्धान्तः द्वे सिद्धान्तस्य । सिद्धः अन्तो निर्णयो यस्य स सिद्धान्तः । भ्रान्तिः मिथ्यामतिः भ्रमः त्रयमयथार्थ- ज्ञानस्य । स्थाणौ पुरुषोऽयमिति ज्ञानं भ्रान्तिः । स्थाणुर्वा पुरुषो वायमित्य- १ इदमध वालपत्रपुस्खोऽपि नास्ति ॥ २ इदमध तालपत्रपुस्तकेऽपि नास्ति ।। Digitized by Google