पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

13-17 । सटीकामरकोशस्य [कालवर्गः समरात्रिंदिवे काले विषुवद्विषुवं च तत् ॥ ("पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा ॥ नाना स पौषो माघाद्याश्चैवमेकादशापरे ॥१॥")(१) मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥१४॥ पौषे तैषसहस्यौ दो तपा माघेऽथ फाल्गुने । स्यात्तपस्यः फाल्गुनिकः स्याचैत्रे चैत्रिको मधुः ॥१५॥ वैशाखे माधवो राघो ज्येष्ठे शुक्रः शुचिस्त्वयम् ॥ आषाढे श्रावणे तु स्यानभाः श्रावणिकश्च सः॥ १६॥ स्युर्नभस्यमौष्ठपदभाद्रभाद्रपदाः समाः ॥ स्थादाश्विन इषोप्याश्वयुजोऽपि स्यान्तु कार्तिके ॥ १७ ॥ बाहुलोर्जी कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ॥ इति णत्वम्। दक्षिणा गतिस्तु दक्षिणायनम् । एवं द्वे अपने एको वत्सरः ॥ १३ ॥ विषुवत् विषुवं " विषुपं विषुणः विषुवः" । "विधुवान्समरात्रिवासरः" इति पु- स्काण्डे बोपालितः।द्वयं समं रात्रिंदिवं यसिंस्तसिन्काले तुलासंक्रान्तौ मेषसंक्रान्तौ च दिनरात्री समे भवतः तस्य कालस्येत्यर्थः। रात्रिंदिवशन्दः "अचतुरविचतुर" इत्यादिना साधुः। पुष्यनक्षत्रयुक्ता पौर्णमासी पौषी ज्ञेया सा पौषी यसिन्मासे वर्तते स नाना पौषः मघायुक्ता पौर्णमासी यत्र समापः स आयो येषां ते । अपरे पौषादन्ये एकादश मासा एवमुक्तरीत्या ज्ञेयाः । एकैकम् । मार्गशीर्षः सहाः मार्गः आग्रहायणिकः चत्वारि मार्गशीर्षस्य ॥१४॥ पौषः तैषः सहस्यः श्रीणि पौरस्य। तपाः माषः द्वे माघस्य । फाल्गुनः तपस्यः फाल्गुनिकः त्रयम् । चैत्रः चैत्रिका मधुः त्रयम् ॥ १५ ॥ वैशाखः माधवः राधः त्रीणि । ज्येष्ठः शुक्रः दे । शुचिः आषाढः । । श्रावणः नभाः सान्तः । श्रावणिकः त्रीणि ॥१६॥ नमस्यः प्रौष्ठपदः भाद्रः भाद्रपदः चत्वारि। आश्विनः इषः आपयुजः त्रीणि । कार्तिकः ॥ १७ ॥ बाहुल: ऊर्जः कार्तिकिकः चत्वारि । ऋतुभेदानाह । हेमन्त इत्येक ऋतुः । शिशिर इत्यपरः । स च पुनपुंसकलिङ्गः एकैकम् । वसन्तः पुष्प- १ इदं पचं तालपत्रपुस्तकेऽस्ति । Digitized by Google 1