पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9-13 प्रथम काण्डम्. सोपप्लवोपरक्तौ दावम्युत्पात उपाहितः॥ एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १० ॥ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ॥ तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तों द्वादशास्त्रियाम् ॥ ११ ॥ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ।। पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२ ॥ दो दो मार्गादिमासौ स्याहतुस्तैरयनं त्रिभिः ।। अयने हे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ १३ ॥ दर्शसंज्ञमिति । राहुणा चन्द्रे सूर्ये च ग्रस्ते सति तस्य बासस्योपरागः ग्रह इति नामद्वयम् ॥९॥ सोपलवा उपरक्त इति द्वे राहुग्रस्तस्येन्दोः सूर्यस्य वा । अग्न्यु- त्पातः उपाहितः इति द्वे वहिकृतोपसर्गस्य । ग्रहणे सति कदाचिदायमण्डला- दुत्पत्रो भवति तस्येत्येके । धूमकेत्वाख्यस्योत्पातस्येत्यपरे । एकयोक्त्याऽपृथ- म्वचनेन पुष्पवन्तावित्युक्तौ सूर्याचन्द्रमसौ ज्ञेयौ एकम् । एकयोक्त्येति वचनात्पु- प्पवन्त इति पुष्पवानिति वा सूर्यः चन्द्रो वा न वक्तव्यः । यथा रोदसी इत्ये- कयोक्त्या द्यावापृथिव्यौ उच्यते। पुष्पवन्तशब्दो मतुबन्तोऽकारान्तश्च । “धरणी- धरशिखरस्थितपुष्पयन्ताभ्याम्" इत्यादिप्रयोगदर्शनात् ॥ १०॥ निमेषोऽक्षिस्प- न्दकालः। “अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्तितः" इत्युक्तम्। अष्टादश निमेषा मिलित्वा एका काष्ठा भवति । त्रिंशत्काष्ठाः मिलित्वा एका कला । ताः कला- विंशन्मिलित्वा एका क्षणः । ते क्षणाः द्वादश मिलित्वा एको मुहूर्तः क्लीब- पुंसोः ॥ ११॥ ते त्रिंशन्मुहूर्ता एकोऽहोरात्रः । अहा सहिता रात्रिरहोरात्रः । अत्र अहश्च रात्रिश्च तयोः समाहार इति विग्रहः साधुः । अन्यथा अजमाव- प्रसवात् । अहःपूर्वाद्रात्रिशब्दावन्द्व एवाविधानात् । तेऽहोरात्राः पञ्चदश- संख्याका एक पक्षः । पक्षो द्विविधः शुक्ल: कृष्णश्चेति । तत्र मासस्य पूर्वः शुक्लः कृष्णस्त्वपरः । यतः शुक्लादिक्रमेण प्रायशो मासप्रवृत्तिः । तावुभौ पक्षा- वेको मासः । चान्द्रेण मानेनेदमुक्तम् ।। १२ ।। मार्गादी द्वौ द्वौ मासौ ऋतुरेका स च हेमन्तादिसंज्ञः । माषादीत्यपि पाठः । माघायुपक्रमस्तु अयनारम्भवशा- शेयः । तैऋतुभित्रिभिरेकमयनम् । तद्विधा सूर्यगतिभेदात् । अर्कस्योदग्गतिः उत्तरायणम् अयते गच्छति अर्कः अनेन।अय गतौल्युत्, "पूर्वपदात्संज्ञायामग" Digbized by Google ४