पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5-9 सटीकामरकोशस्य [कालवर्ग:

गणरात्रं निशा बयः प्रदोषो रजनीमुखम् ॥ अर्धरात्रनिशीथौ दौ दो याममहरौ समौ ॥६॥ स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥ पक्षान्तौ पञ्चदश्यौ दे पौर्णमासी तु पूर्णिमा ॥७॥ कलाहीने सानुमतिः पूर्णे राका निशाकरे ॥ अमावास्या समावस्याँ दर्शः सूर्येन्दुसंगमः ॥८॥ सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः॥ उपरागो ग्रहो राहुअस्ते विन्दौ च पूष्णि च ॥ ९ ॥ रात्रौ पक्षिणीति नामैकम् । पक्षाविव पक्षौ पूर्वोत्तरदिवसौ यस्याः सा पक्षिणी । "पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा"इति स्मरणात् ॥५॥बढ्यो निशाः गणरात्र स्यात् । एकं रात्रिसमुदायस्य । प्रदोषः रजनीमुखं वे रात्रैः पूर्वभा- गस्य । अर्धरात्रः निशीथ इति द्वे रात्रिमध्यसमयस्य । यामः प्रहरः द्वे अहो- रात्राष्टमांशस्य ॥६॥ प्रतिपत्पश्चदश्योर्यदन्तर स सन्धिः पर्वेत्यन्वयः। यदाहरुद्रः। "दर्शप्रतिपदोः सन्धौ ग्रन्थिप्रस्तावयोरपि । पर्व क्लीबे विजानीयाद्विषुवत्प्रभृतिष्व- पि" इति। पर्वसन्धिरिति चतुरक्षर वा एकम् । वे अमापूर्णिमे पक्षान्तौ पञ्चदश्यौ द्वय पक्षान्ततिथ्योः । द्वित्वाद्विवचनम् । नतु नित्यम् । पौर्णमासी पूर्णिमा । द्वे शुक्लपक्षान्त्यतिथौ ॥७॥ सा पूर्णिमा कलाहीने चन्द्रे सति अनुमतिरित्युच्यते एकम् । सैव पूर्णिमा पूर्णे निशाकरे सति राका एकम् । या पूर्वा पौर्णमासी सा अनुमतिर्योत्तरा सा राकेति श्रुतिः । अमावास्या अमावस्या । “अमावस्यद- न्यतरस्याम्"। पा० । अमा सह वसतः अस्यांचन्द्राकौं । अमोपपदाद्वसेरधिक- रणे ण्यत् । वृद्धौ सत्यां पाक्षिको इस्वश्च निपात्यते । "अमावसी अमावासी अमामासी अमामसी । अप्यमावस्यमावासी चामामास्यप्यमामसी" इति शब्दा- र्णवः । नामैकदेशे नामग्रहणादमापि । दर्शः सूर्येन्दुसंगमः चत्वारि कृष्णपक्षा- न्त्यतिथेः॥८॥ सा अमावास्या दृष्टेन्दुश्चेष्ट इन्दुर्यस्यां सा सिनीवाली एकम् । सैव नष्टेन्दुकला नष्टा इन्दुकला यस्यां सा कुहू: "कुहुः" एकम् । या पूर्वामा- वास्या सिनीवाली योत्तरा सा कुहूरिति श्रुतिः । अयमर्थः । चतुर्दश्या अन्तिम- प्रहरः अमावास्याया अष्टौ प्रहराश्चेति नवप्रहरात्मकश्चन्द्रक्षयकालः शास्त्रसिद्धः। तत्रायमहरद्वये चन्द्रस्य सूक्ष्मता । अन्तिमप्रहरद्वये कृत्मक्षयः । अतोऽमावास्या- या आधाहर: सिनीवालीसंज्ञः । अन्त्यमहरद्वयं कुहूसंशम् । मध्यमप्रहरपत्रके Digitized by Google