पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं काण्डम्. । 1-5 कालवर्गः४] २३ घस्रो दिनाहनी वा तु क्लीवे दिवसवासरौ॥ प्रत्यूषोऽहर्मुखं कल्यमुष प्रत्युषसी अपि ॥२॥ ("व्युष्टं विभातं हे क्लीवे पुंसि गोसर्ग इष्यते"।) (१) प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः ।। पाहापराकमध्याहास्त्रिसन्ध्यमथ शर्वरी ॥ ३॥ निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ॥ विभावरीतमखिन्यौ रजनी यामिनी तमी ॥४॥ तमिस्रा तामसी रात्रिज्योत्स्वी चन्द्रिकयान्विता ॥ आगामिवर्तमानाहयुक्तायां निशि पक्षिणी ॥ ५॥ तिथिशम्दः द्वयोः स्त्रीपुंसयोः । तथा च प्रयोगः । “सकलो निशि पूर्णिमाति- थीनुपतखेऽतिथिरेकिका तिथि:" इति ॥१॥ घसः दिन अहः दिवसः वासरः पश्चकं दिवसस्य । तत्र दिवसवासरौ क्लीवपुंसोः । प्रत्यूषः अहर्मुख कल्य (काल्य) उपः (ऊषः उषा) "उषा प्रभातं गोसर्गः" इति त्रिकाण्डशेषः । प्रत्युषः (प्रत्यूषः) "उषः प्रत्युषसि क्लीवं पितृप्रखां च योषिति " प्रभातं पई प्रमातस्य । तत्रायः प्रत्यूषोऽदन्तः पुंसि क्लीबे च । “प्रत्यूषोऽहर्मुखे वसौं" इति मेदिनी । कल्यं तालव्यान्तम् ॥२॥ दिनान्तः सायं “सायः" सन्ध्या "सन्धा"। "सन्ध्या पिवप्रसः सन्धा" इति शब्दार्णवः । सम्यक् ध्यायन्त्यस्यामिति सन्ध्या । पितृप्रसूः चत्वारि दिनान्ते । तत्र सायमित्यव्ययं नपुंसकलिङ्ग वा । "सायः काण्ड़े दिनान्तेच" इति मेदिन्यादिषुसाय इत्युक्तत्वात्सायमिति मान्ताव्ययस्याव्ययवर्गे वक्ष्यमाणत्वादत्र सायोऽदन्तः पुंस्येव । प्राहादयः समाहृताः त्रिसन्ध्यं ज्ञेयम् । "आवन्तो वेति पाक्षिकी क्लीबता। पक्षे त्रिसन्ध्यी" एकम् । तत्र प्रासः पूर्वाहः । शर्वरी (शार्वरी)॥३॥ निशा निशीथिनी रात्रिः (रात्री) “रात्री रात्रिस्तम- खिनी" इति शन्दर्णवः। त्रियामा क्षणदा क्षणमुत्सव निर्व्यापारस्थिति वा ददाति। क्षपा विभावरी तमखिनी रजनी (रजनिरपि) यामिनी तमी "तमा तमिः" द्वादश निश्शायाः॥४॥या तामसी तमोयुक्ता रात्रिः सा तमिस्रा एकम् । या चन्द्रिकया चन्द्रप्रकाशेन अन्वितायुक्ता रात्रिःसाज्योत्स्नी एकम् । "ज्योत्स्नी ज्यो- तिष्मती रात्रिज्योत्ला चन्द्रमसःप्रमा" इति शाश्वतः । पूर्वापरदिनाभ्यां युक्तायां १दम तालपत्र पुस्तकेऽपि नास्ति । Digtired by Google