पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22-27 सटीकामरकोशस्य [दिग्वर्गः मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी। इखलास्तच्छिरोदेशे तारका निवसन्ति याः॥ २३ ॥ बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः ॥ जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः॥ अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ॥ २५ ॥ रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ । तमस्तु राहुः वर्भानुः सैहिकेयो विधुतुदः ॥ २६ ॥ सप्तर्षयो मरीच्यत्रिमुखाचित्रशिखण्डिनः॥ राशीनामुदयो लमं ते तु मेषवषादयः ॥ २७ ॥ प्रोष्ठपदे द्वे उत्तरे च द्वे एवं चतुःसंख्याकत्वाबहुवचनम् । त्रियः स्त्रीलिङ्गाः स्युः ॥ २२ ॥ मृगशीर्ष "शीर्षे " इत्यपि पाठः । मृगशिरः आग्रहायणी अयं मृगशीर्षस्य । तस्य मृगशीर्षस्य शिरोदेशे याः पश्च तारा निवसन्ति ता इल्वला: (इन्वकाः) एकम् ॥ २३ ॥ बृहस्पतिः सुराचार्यः गीपतिः धिषणः गुरुः जीवः आविसः वाचस्पतिः चित्रशिखण्डिजः नवक बृहस्पतेः । चित्रशिखण्डी अङ्गिराः तजः ॥ २४ ॥ शुक्रः दैत्यगुरुः काव्यः उशना भार्गवः कविः षद शुक्रस्य । उशनेति सान्तम् "ऋदुशन" इत्यनङ् । अङ्गारका कुजा भौम: लोहिताम: महीसुतः पञ्चक मङ्गलस्य ॥२५॥ रौहिणेयः बुधः सौम्यः त्रयं बुधस्य । सौरिः "शौरिरपि" "सौरः" शनैश्वरः द्वे शनेः । तमः राहुः खानुः सैंहि- केया विधुतुदः पश्च राहोः । तमः सान्त क्लीवे पुंसि च कचित् । अदन्तः । "खर्भानुस्तु तमो राहुः" इति पुंस्काण्डे रसकोशामरमालयोर्दर्शनात् ।। २६ ॥ मरीच्यत्रिमुखाः सप्तर्षयश्चित्रशिखण्डिसंज्ञाः एकम् । मुखशब्दात्पुलहपुलस्त्यादयः सप्तर्षयः । ते यथा । "मरीचिरगिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठ- श्रेति सौते शेयाश्चित्रशिखण्डिनः" । राशीनामुदयो लनमित्युच्यते । एकम् । मेषषादयो राशयः स्युः एकम् आदिना मिथुनकर्कटकादयः । “मेरो पोऽथ मिथुन कर्कटः सिंहकन्यके । तुला च वृश्चिको धन्वी मकरः कुम्भमी- नको" ॥ २७ ॥ सूरः (शूरः) सूर्यः अर्यमा आदित्यः द्वादशात्मा दिवाकरः Dighized by Google