पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

17-22 प्रथमं काण्डम्. 1 अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ॥ पालेयं मिहिका चाथ हिमानी हिमसंहतिः॥१८॥ शीतं गुणे तदर्थाः सुषीमः शिशिरो जडः ॥ तुषारः शीतलः शीतो हिमः समान्यलिङ्गकाः॥ १९ ॥ ध्रुव औतानपादिः स्थादगस्त्यः कुम्भसंभवः ।। मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥ नक्षत्रमूक्षं भं तारा तारकाप्युडु वा स्त्रियाम् ॥ दाक्षायण्योश्विनीत्यादितारा अश्वयुगश्विनी ।। २१ ।। राधा विशाखा पुष्ये तु सिध्यतिष्यौ अविठया ॥ समा धनिष्ठा स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥ युतिः छविः चत्वारि शोभामात्रस्य । शोभा कान्तिरित्यत्रामिख्या कान्तिरि- त्यपि पाठः ॥ १७ ॥ अवश्यायः नीहारः तुषारः तुहिन हिम पालेय मिहिका (महिका) सप्तकं हिमस्य । हिमानी हिमसंहतिः द्वे महतो हिमस्य । एवमु- स्तलिङ्गा अवश्यायादयः ॥ १८॥ नपुंसकलिङ्गः शीवशब्दच गुणे स्पर्शवि- शेषे एव नतु गुणिनि । सुषीमः (सुषिमः सुशीमः) शिशिरः जड पारः शीतला शीतः हिमः एते सम तदर्थाः तद्वान् शीतगुणवानर्थो येषां ते तथा ते चान्यलिङ्गकाः विशेष्यनिमाः । तुषारहिमशीतशब्दा निल्डलक्षणया गुणि- त्यपि वर्तन्त इत्युमयत्र पठिताः ॥१९ ॥ध्रुवः । औचानपादिः द्वे उत्तानपा- दपुत्रस्य । अगस्त्यः कुम्भसंभवः मैत्रावरुणिः। “मैत्रावरुणः""और्वश्यागस्त्य- मैत्रावरुणास्त्वाभिमारुवा" इति नामनिधानात् । त्रयमगस्त्यस्य । अगस्तिरि- त्यपि। “अथागस्त्यः कुम्मयोनिरगस्तिः कलशीसुतः" इति शब्दार्णवः । अस्मा- मस्त्यस्य सधर्मिणी पती लोपामुद्रा एकम् ॥ २० ॥ नक्षत्र ऋक्ष में तारा वारका उडु इति षढू नक्षत्रमात्रस्य । उड्डु खीनपुंसकयोः । अपिशन्दात्तारकापि तया।"नक्षत्रे चाक्षिमध्ये च तारक तारकापि च" इति शाश्वतः। अश्विनीत्या- दितारा अश्विन्यादिसप्तविंशतिनक्षत्राणि दाक्षायणीसंझकानि । एकम् । अच- युक् अश्विनी रे अश्चिन्याः ॥ २१ ॥ राधा विशाखा द्वे विशाखायाः । पुष्यः सिध्यः तिष्यः अयं पुष्ये । अविष्ठा धनिष्ठा द्वे धनिष्ठायाः । अविष्ठया समा भविष्ठा तुल्येत्यर्थः। प्रोष्ठपदाः भाद्रपदाः दूर्य पूर्वाभाद्रपदोतराभाद्रपदासु । पूर्व Digtered by Google