पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! १८ . । 1 सटीकामरकोशस्य [दिग्वर्गः वर्षोपलस्तु करका मेघच्छन्नेहि दुर्दिनम् ॥ अन्तर्धा व्यवधा पुंसि त्वन्तढिरपवारणम् ॥ १२ ॥ अपिधानतिरोधानपिधानाच्छादनानि च ॥ हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ॥ अजो जैवातृकः सोमो ग्लोर्मुगाङ्कः कलानिधिः ॥ १४ ॥ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः॥ कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥१५॥ भित्तं शकलखण्डे वा पुंस्यर्थोऽध समेंऽशके ॥ चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥ कलकाको लाञ्छनं च चिह लक्ष्म च लक्षणम् ।। सुषमा परमा शोभा शोभा कान्तिर्युतिश्छविः ॥ १७ ॥ तद्विधाते वर्षनिरोधे । धारासंपातः आसारः द्वर्य मेषधाराणां निरन्तरपतनस्य । शीकर इत्येक अम्मुकणानाम् । दन्त्यादिरप्ययम् ॥११॥ वर्षोपला करका दे यत्प्रथमवृष्टौ मेघोदकं कठिन सदुपलवत्पतति तस्य । दुर्दिनमित्येकं मेध- पछले दिने । रात्रेरप्युपलक्षणम् । अन्तर्धा व्यवधा अन्तर्द्धिः अपवारणम् ॥ १२ ॥ अपिधान तिरोधानं पिधान आच्छादन अष्टकमाच्छादनस्य । तत्र अन्तर्षाव्यवधे खियाम् । अन्तर्द्धिः पुंसि।हिमांशुः चन्द्रमाः चन्द्रः इन्दुः कुसुद- मान्धवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुः ओषधीशः निशापतिः अब्जा वातका । जीवयतीति अन्तर्भावितण्यर्थः । आकन् प्रत्ययः। सोमः “सोमा" ग्लौः मृगाः कलानिधिः॥ १४ ॥ द्विजराजा शशधरः नक्षत्रेशः क्षपाकरः इति विशति नामानि चन्द्रस्य । चन्द्रमण्डलस्य षोडशो भागः कलासंज्ञः। एकम्। बिम्बः मण्डलं वे निम्बस्य ।।१५।। भित्तादिचतुष्क शकलस्य । तत्र मित्त नपुं- सकम् । शकलखण्डे क्लीबपुंसोः । अर्घः पुंस्येव । यथा कम्बलस्पार्षः खण्ड इत्यर्थः । वाच्यलिङ्गोऽपि । यथा अर्धा शाटी अर्धः पटः अर्धे वस्त्रम् । अर्धमि- त्येकं समे विमागे तनपुंसकमेव । चन्द्रिका कौमुदी जोत्ला अयं चन्द्रप्रमा- गाम् । प्रसादः प्रसन्नता द्वयं नैर्मल्यस्य ॥ १६ ॥ कलङ्क: अङ्क लाग्छन चिई कक्ष्म लक्षणं पई चिहस्य । सुषमेत्येकं परमायाः शोभायाः । शोभा कान्तिः Digtized by Google