पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सटीकामरकोशस्य [दिग्वर्गः दिशस्तु ककुभः काष्ठा आशाश्व हरितश्च ताः॥ प्राच्यवांचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १॥ उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ॥ ("अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥ प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ॥१॥")(१) इन्द्रो वह्निः पितृपतिनैर्ऋतो वरुणो मरुत् ॥ २॥ कुबेर ईशः पतयः पूर्वादीनां दिशा क्रमात् ॥ ("रविः शुक्रो महीसूनुः खर्भानुर्भानुजो विधुः ॥ बुधो वृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ॥ १॥") (२) ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ करिण्योभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाअनावती ॥ क्लीबाव्ययं स्वपदिशं दिशोर्मध्ये विदिक स्त्रियाम् ॥५॥ आकाशविहायसी क्लीवपुंसोः । विहायसनाको धुसि । युरध्ययं अलि मित्यर्थः । शेष क्लीबे ॥ इति व्योमवर्गः ॥२॥ दिशः ककुभः काष्ठाः आशाः हरितः पञ्चक दिशाम् । ताः पूर्वदक्षिणपश्चिमाः क्रमेण प्राच्यवाची- प्रतीच्यः स्युः । यथा पूर्वा दिक् प्राची । दक्षिणा दिगवाची (अपाची)। पश्चिमा दिक् प्रतीची एकैकम् ॥१॥ या उत्तरा दिक् सोदीची एकम् । दिश्य- मित्येक दिग्भवे । 'दिगादिभ्य' इति यत्प्रत्ययः, तत्रिषु वाच्यलिङ्गम् । यथा दिश्यो हस्ती । दिश्या हस्तिनीत्यादि ! इन्द्रादयो ष्टौ कमात्पूर्वादीनां दिशा पतयः एकैकम् ॥२॥ ऐरावत इत्यष्टौ क्रमादिग्गजाः पूर्वादिदिशा धारका गजा इत्यर्थः ॥३॥ अभ्रमुः कपिला पिङ्गला अनुपमा ॥४॥ ताम्रकर्णी शुभदन्ती "शुभदन्ती" अङ्गना (अञ्जना) अञ्जनावती एता अष्टौ करिण्यः क्रमा- दिग्गजानां लिय इत्यर्थः । एकैकम् । अपदिशं विदिक् इति द्वय दिशोमध्ये दिग्द्वयमध्यभागे । तत्राऽपदिश क्लीवाव्ययं नपुंसक अव्ययं चेत्यर्थः । विदिक १६ पथं तालपत्रपुस्तकेऽपि नास्ति ॥ २ इदं पद्यं वालपत्रपुस्तकेऽपि नास्ति । Digtizad by Google 1