पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66-71 सटीकामरकोशस्य [वर्गवर्गः१ प्राणोऽपानः समानश्चोदानव्यानौ च वायवः॥ शरीरस्था इमे रहस्तरसी तु रयः स्यदः ॥ ६७॥ जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ।। सत्वरं चपलं तूर्णमविलम्बितमाशु च ॥ ६८॥ सतते ऽनारताश्रान्तसंतताविरतानिशम् ॥ नित्यानवरताजस्रमप्यथातिशयो भरः ।। ६९ ॥ अतिवेलभृशात्यतिमात्रोद्गादनिर्भरम् ।। तीवेकान्तनितान्तानि गाढबाढदृढानि च ॥७॥ क्लीबे शीघ्राद्यसत्त्वे स्थाविश्वेषां सत्त्वगामि यत् ।। कुबेरख्यम्बकसखो यक्षराहुबकेश्वरः॥ ७१ ।। प्रकम्पनः महावातः द्वयं महापायोः। स एव सष्टिकः झञ्झावात इत्युच्यते।।६६।। प्राणः अपानः समानः उदानः व्यानः इमे पश्च शरीरस्था वायुभेदाः । तथा चोक्तम् । 'हृदि प्राणो गुदे पानः समानो नाभिमण्डले । उदानः कण्ठदेशे स्यायानः सर्वशरीरग' इति ॥अमप्रवेशन मूत्राद्युत्सर्गोऽनादिपाचनम् । भाषणा- दिनिमेषाच तबापाराः क्रमादमी' इत्यपि ॥ एकैकम् । रहः तरः रयः स्यदः ॥६७॥ जवः पञ्चकं वेगस्य । शीघ्रं त्वरित लघु क्षिप्रं अरे द्रुतं सत्वरं चपलं तूर्णम् अविलम्बितम् आशुएकादश त्वरितस्य । “[रह आदयः सवेगगतिवचनाः। शीघ्रा- दयस्तु धर्मवचना एव । अत एव शीघ्र पचतीति प्रयोगो न तु जवं पचतीति । वस्तुतस्तु वेगाख्यगुणपरा रह प्रभृतयः शीघ्रादयस्तु कालाल्पत्वपरा इति ]" ॥६८॥ सततं अनारत अश्रान्तं संततं अविरतं अनिशं नित्यं अनवरतं अजर्स इति नवक नित्यस्य । “सततं क्रियान्तरैरव्यवधानम् अतिशयस्तु पौनःपुन्य इति भेद:" अतिशयः भरः ॥ ६९ ॥ अतिवेले भृशं अत्यर्थ अतिमात्र उद्गाद निर्मर तीवं एकान्त नितान्त गाढं बाढं दृढ इति चतुर्दश अतिशयस्य ॥७०॥ शीघ्रादि शीघ्रं त्वरितमित्यारभ्य दृढशब्दपर्यन्त क्लीवे नपुंसकलिङ्गे यदुक्तं तत्तु असत्वे द्रव्यवृत्तित्वाभावे एव क्षेयम् । यथा शीघ्र कृतवान् । भृशं मूर्खः । भृशं याति । एषां शीघ्रादीनां मध्ये यत्सत्वगामि द्रव्यवृत्ति तत् त्रिषु तस्य द्रव्यस्य यल्लिा तदेवास्येत्यर्थः । यथा शीघ्रा धेनुः। शीघ्रो वृषः शीघ्रं गमनम् । भरातिशययोः सत्वगामित्व नास्ति । नित्यं पुंस्त्वम् । “कचित् भेद्यगामीति पाठस्तस्य विशे- ध्यगामीत्यर्थः" । कुबेरः त्र्यम्बकसखः यक्षराद् गुह्यके पः ॥७१॥ मनुष्यधर्मा Digitized błGoogle