पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60-66 प्रथमं काण्डम्. १]. १३ ("उल्का स्थानिर्गतज्वाला भूतिर्भसितभस्मनी ॥ क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥१॥") (१) धर्मराजः पितृपतिः समवर्ती परेतराट् ॥ कृतान्तो यमुनाभ्राता शमनो यमराज्यमः ॥ ६१ ॥ कालो दण्डधरः श्राद्धदेवो वैवखतोऽन्तकः॥ राक्षसः कौणपः व्याक्रव्यादो ऽसप आशरः ॥ ६२ ।। रात्रिंचरो रात्रिचरः कर्बुरो निकषात्मजः॥ यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६३ ।। प्रचेता वरुणः पाशी यादसांपतिरप्पतिः ॥ श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६४ ॥ पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः॥ समीरमारुतमरुज्जगत्लाणसमीरणाः ।। ६५॥ नभवदातपवनपवमानप्रभञ्जनाः॥ (प्रकम्पनो महावातो झञ्झावातः सदृष्टिकः ॥ ६६ ॥ (२) यमुनाभ्राता शमनः यमरान यमः ॥६॥ कालः दण्डधरः श्राद्धदेवः । श्राद्धस्य देवः पितृपतित्वात् । वैवस्वतः अन्तका इति चतुर्दश नामानि यमस्य । राक्षस: कौणपः "कोणपः" ऋव्यात् । ऋव्यं मांसं अत्ति इति क्रव्यात् । क्रव्यादः असपः अन रक्तं पिबति "अश्रपः" आशरः आ शृणाति हिनस्तीत्याशरः "आशिर" ।। ६२ ।। रात्रिचरः रात्रिचरः कुर्बुरः "कर्बरः" निकषात्मजः यातुधानः "जातुधानः" पुण्यजनः नतः यातु रक्षः पञ्चदश राक्षसस्य । तत्र यातुरक्षसी नसके ॥६३॥.प्रचेताः वरुणः “घरण" पाशी यादसांपतिः। पठ्या अलुक् । अप्पतिः पञ्चक वरुणस्य । श्वसनः स्पर्शनः वायुः मातरिश्वा । मातरि अन्तरिक्ष वयति सचरति श्वभुक्षनिति निपातनात् सप्तम्या अलुक् । सदागतिः॥६४ ॥ पादश्वः। पृषन्मृगभेदोऽश्वो वाहनमस्य । गन्धवहः। गन्धवाहः अनिल आशुगः समीरः मारुतः मरुत् जगत्त्राणः "जगत् प्राण इति पदद्वयमपि" समीरणः॥६५॥ नमखान् वातः “वातिः" पवनः पवमानः प्रभञ्जनः विंशतिर्नामानि वायोः । १ इदं पचं बालपत्रपुस्तकेऽपि नास्ति ।। २ इदमधे सालपत्रपुस्तके नास्ति । Digitized by Google ।