पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50-55 प्रथमं काण्डम्. ११ १] व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः । स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ५१ ॥ मन्दाकिनी वियद्गङ्गा वर्णदी सुरदीर्घिका ।। मेरुः सुमेरुहेमाद्री रनसानुः सुरालयः॥ ५२ ॥ पञ्चैते देवतरवो मन्दारः पारिजातकः ॥ सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५३ ॥ सनत्कुमारो वैधात्रः स्ववैद्यावश्विनीसुतौ ॥ नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५४॥ स्त्रियां बहुष्वप्सरसः खर्वेश्या उर्वशीमुखाः॥ हाहा हूहूश्चैवमाया गन्धर्वास्त्रिदिवौकसाम् ॥ ५५ ॥ . अशनियोः स्त्रीपुंसयोः ॥५०॥ व्योमयानं विमानः द्वे विमानस्य । तत्र विमानः पुसि क्लीवे च । नारददेवलाधाः सुरर्षयः एकम् । सुधर्मा देवसभा इति द्वे देवस- मायाः। पीयूष "पेयूष " अमृत सुधा त्रीण्यमृतस्य ॥५१॥ मन्दाकिनी वियना वर्षदी सुरदीपिका चत्वारि मन्दाकिन्याः । मेरुः सुमेरुः हेमाद्रिः रमतानुः सुरालयः पञ्च कनकाचलस ॥५२॥ मन्दारः पारिजातका सन्तानः कल्पाक्ष: हरिचन्दनं पञ्चैते देवतरवः । तत्र हरिचन्दन क्लीबपुंसोः॥ ५३ ॥ सनत्कुमारः 'सनात्कुमारः" वैधात्रः द्वे सनकादेः । स्ववैद्यौ अश्विनीसुतौ नासत्यौ अश्विनी दसौ आथिनेयौ इति षट् अश्विनीकुमारयोः । तावुभौ यमलौ अत एव द्विवचनम् ॥५४॥उर्वशीखाः उर्वशीमेनकारम्भेत्याद्याः अप्सरसःखर्वेश्या इति चोच्यन्ते । "धृताची मेनकारम्भा उर्वशी च तिलोत्तमा। सुकेशी मञ्जुघोषायाः कथ्यन्तेऽस- रसो बुधैः" । अत्र अप्सरस शब्द एकस्थामपि व्यक्तौ बहुवचनान्तः सीलियः । अप्सरा इत्यपि प्रयोगदर्शनात्यायशो बहुत्वम् । हाहाः हः एवमाधौ येषां ते तया दिवौकसां देवानां गन्धर्वाः गायना एकैकम्। आधशब्दातुम्बुरुविश्वावसुचि प्ररथप्रभृतयः । हाहाशब्दख रूपं तु हाहाः हाहौ हाहाः हाहा हाहौ हाहान् हाहाहाहाभ्यामित्यादि “हाहाःसान्तोऽपि, गन्धर्वो हाहसि प्रोक्त इति रखकोशा- "शब्दस्य द्वितीयैकवचनं हूहूमित्यादि द्रष्टव्यम् । “हहाइत्यादिइखाडुइत्यु- मयालय । मीतमाधुर्यसंपनी विख्यातौ च हहाहुहू इति यासोक्तेः"॥५५॥ Digitized by Google