पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44-50 सटीकामरकोशस्य [वर्गवर्गः जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः॥ सुत्रामा गोत्रभिदनी वासवो वृत्रहा वृषा ॥१५॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः॥ जम्मभेदी हरिहयः खारापनमुचिसूदनः ॥ ४६॥ संक्रन्दनो दुश्यवनस्तुरापाण्मेघवाहनः ।। आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४७॥ पुलोमजा शचीन्द्राणी नगरी वमरावती ।। हय उच्चैःश्रवाः सूतो मातलिनन्दनं वनम् ॥ १८॥ स्थात्मासादो वैजयन्तो जयन्तः पाकशासनिः॥ ऐरावतोभ्रमातङ्गरावणाम्रमुवल्लभाः ॥ ४९ ॥ हादिनी वज्रमस्त्री स्यात्कुलिशं भिद्रं पविः ।। शतकोटिः खरुः शम्बो दम्भोलिरशनिर्दयोः॥५०॥ बिडौजा पाकशासनः वृद्धश्रवाः शुनासीरः “द्वितालव्यः द्विदन्त्यश्च" पुरुहूतः पुरन्दरः ॥४४॥ जिष्णुः लेखर्षभः शक्रः शतमन्युः। शतं मन्यवो यज्ञाः यस । 'मन्यु,न्ये ऋतौ त्रुधि' इति विश्वः । दिवस्पतिः सुत्रामा "सूत्रामा" गोत्रभित् वजी वासवः वृत्रहा धूषा ॥४५॥ वास्तोष्पतिः सुरपतिः बलारातिः शचीपतिः जम्मभेदी हरिहयः खाराट् नमुचिसूदनः ॥४६॥ सक्रन्दनः दुथ्यवना तुरापाद् मेषवाहनः । आखण्डला सहस्राक्षः ऋभुक्षाः इति पञ्चविंशदिन्द्रस्य । तत्र वाराद् जकारान्तः । तुरापाद् हान्तः । प्रभुक्षा नान्तः पथिवत् । तस्येन्द्रस्य प्रिया तु पुलो- मजेत्युत्तरेण सम्बन्धः ॥४७॥ पुलोमजा शची “ दम्त्यादिरपि" इन्द्राणी । इति अयमिन्द्रप्रियायाः । इन्द्रस्य नगरी तु अमरावती । तस्य अश्व उचैःश्रवाः। तस्य सारथिर्मातलिः। तस्योपवनं नन्दनम् ॥४८॥ इन्द्रस्य प्रासादो गृहविशेषः वैज- यन्तनामा । जयन्तः पाकशासनिः द्वे इन्द्रपुत्रस्य । ऐरावतः अभ्रमात ऐरावनः अप्रमुघल्लमः इति चत्वारि ऐरावतस्य ।। ४९ ॥ हादिनी वर्ज कुलिश मिदुरै "मिदिर" पविः शतकोटिः खः "सन्तोऽपि" सम्पः "सम्बः। शम्बः। तालच्या अपि दन्त्याश्च सम्बसूकरपांसच इत्यूष्मविवेकः" दम्भोलि: अशनिः इति दशक वजस्य । तत्र हादिनी सी वज्रमखी पुनपुंसकलिङ्गम् । पन्यादयः इसि । Digitized by Google -