पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38--- प्रथमं काण्डम्. १] शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥३९॥ (आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥) (१) विनायको विघ्नराजद्वैमातुरगणाधिपाः ॥ ४० ॥ अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥ कार्तिकेयो महासेनः शरजन्मा षडाननः ॥४१॥ पार्वतीनन्दनः स्कन्दः सेनानीरमिभूर्गुहः ॥ बाहुलेयस्तारकजिदिशाखः शिखिवाहनः ॥ ४२ ॥ पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ (शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः ॥ १३ ॥ "कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका॥') (२) इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः॥ वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः ।। ४४॥ प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः॥अणोर्मावः । महतो भावः, येन ब्रह्माण्डे न माति । गुरोर्भावः । लघोर्भावः । प्राप्तिरल्यग्रेण चन्द्रादेः। प्रकामस्य भाव इच्छानमिषातः । ईशिनो भावः प्रभुत्वं येन स्थावरा आप्याज्ञाकारिणः । वशिनो भावः येन भूमावपि उन्मजननिमजने । उमा कात्यायनी गौरी काली "काला" हैमवती ईश्वरी "ईश्वरा" ॥ ३८ ॥ शिवा "शिवी" भवानी रुद्राणी शर्वाणी सर्वमाला अपर्णा पार्वती दुर्गा मृडानी चण्डिका अम्बिका।।३९।। आर्या दाक्षायणी गिरिजा मेनकात्मजा इत्येकविंशतिः पार्वत्याः ॥ विनायक: विमराजः द्वैमातुरः गणाधिपः ॥४०॥ एकदन्तः हेरम्बः लम्बोदरः गजाननः इत्यष्टौ गणेशस्य । कार्तिकेया महासेनः शरजन्मा षडाननः॥४शा पार्वतीनन्दनः स्कन्दा सेनानी: अमिभूः गुहा बाहुलेया तारकजित् विशाखः शिखिवाहन॥४२॥ पामातुरः शक्तिधरः कुमारः क्रौञ्चदारणः "कौञ्चदारणः" इति सप्तदश स्कन्दख। शहीभृङ्गी रिटि: तुण्डी नन्दिका नन्दिकेश्वरः इति पनामानि नन्दिनः। शशी भृकीय क्षेपकमिति केचित् ॥४३॥ इन्द्रः मरुत्वान् मघवा "मषषान्" १ इदम तालपत्रपुस्तके नास्ति ॥ २ इदं पद्यमपि तालपत्रपुस्तके नास्ति ।। Digitized by Google