पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32-38 ८ सटीकामरकोशस्य [स्वर्गवर्ग: भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ॥ मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३३ ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ॥ वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३४ ॥ कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः॥ हरः स्मरहरी भर्गस्यम्बकत्रिपुरान्तकः ॥३५॥ गङ्गाधरोऽन्धकरिपुः क्रतुवंसी वृषध्वजः ॥ व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३६॥ (“अहिर्बुभ्योऽष्टमूर्तिश्च गजारिश्च महानटः॥") (१) कपर्दोऽस्य जटाजूटः पिनाकोजगवं धनुः ॥ प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥३७ ।। विभूतिभूतिरैश्वर्यमणिमादिकमष्टया ॥ उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥३८॥ गिरीशः । गिरिय॑स्यास्ति अथवा गिरौ शेते । मृडः मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३३ ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् वामदेवः महादेवः विरूपाक्षः त्रिलोचनः ॥ ३४ ॥ कृशानुरेताः सर्वज्ञः धूर्जटिः नीललोहितः हरः "हीरः" सरहरः भर्गः “भर्यः" त्र्यम्बका त्रिपुरान्तका ॥ ३५ ॥ गङ्गाधरः अन्धकरिपुः क्रतुध्वंसी वृषध्वजः व्योमकेशः भवः भीमः स्थाणुः रुद्र: उमापतिः इत्यष्टचत्वारिंशनामानि शिवस्य । ईशितुं शीलमपेश्वरः। ईष्टे तच्छील ईशानः ॥३६ ॥ अस्य शंभोः जटाजूटः कपर्दनामा अस्य धनुः अजगवम् । "अजकवम्" तदेव पिनाक इत्यपि । अस्य पारिषदाः परि- पदि साधवः पारिषद्या" प्रमथाः । ब्राझीत्याद्याः " ब्रह्माण्याचा । यथाहुः । "ब्राझी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः" इति ॥ ३७॥ विभूतिः भूतिः ऐश्वर्य इति त्रीणि ऐश्वर्यस । तत्तु अणिमा महिमेत्यादिभेदैरष्टविधम् ॥ ते चाौ मेदा यथा "अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्ति: १. इदम तालपत्रपुस्तकेऽपि नाति । Digtized by Google मातरः