पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

21-27 सटीकामरकोशस्य [स्वर्गवर्गः विश्वम्भरः कैटभजिदिधुः श्रीवत्सलाञ्छनः॥ (पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥ २२ ॥ जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ॥) (१) वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २३ ॥ बलभद्रः प्रलम्बनो बलदेवोऽच्युताग्रजः॥ रेवतीरमणो रामः कामपालो हलायुधः ॥ २४ ॥ नीलाम्बरो रोहिणेयस्तालाको मुसली हली ।। संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २५ ॥ मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ॥ कन्दर्पो दर्पकोऽनङः कामः पञ्चशरः स्मरः ॥ २६ ॥ शम्बरारिमनसिजः कुसुमेषुरनन्यजः ॥ पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ २७ ॥ हरिवंशे । श्रीवत्सेनोरसि श्रीमान् रोमजातेन राजता | शुशुभे भगवान् कृष्णः । पुराणपुरुषः यज्ञपुरुषः नरकान्तकः ॥ २२॥ जलशायी विश्वरूपः मुकुन्दः मुरमर्दनः । इति षट्चत्वारिंशद्विष्णोः । अस्य कृष्णस्य जनकः पिता वसु- देवः । वसुदेव एव आनकदुन्दुभिः द्वे कृष्णपितुः ॥ २३ ॥ बलभद्रः प्रलम्बनः बलदेवः अच्युताग्रजः रेवतीरमणः रामः कामपालः हलायुधः ॥ २४ ॥ नीलाम्बरः रौहिणेयः तालाः मुसली “ मुषली" हली संकर्षणः सीरपाणिः कालिन्दीभेदनः बलः । इति सप्तदश बलरामस्य ॥२५॥ मदनः मन्मथः मारः प्रधुनः मीनकेतनः कन्दर्पः दर्पक: अनः कामः पश्चशरः सरः ॥ २६ ॥ शम्बरारिः “सम्बरारिः" मनसिजः कुसुमेषुः अनन्यजः पुष्प- धन्वा रतिपतिः मकरध्वजः आत्मभूः । इत्येकोनविंशतिर्मदनस नामानि ॥ २७॥ " अरविन्दमशोकं च चूतं च नवमल्लिका ॥ नीलोत्पलं च पञ्चैते पश्चबाणस सायकाः॥१॥" उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।। संमोहनश्च कामस पश्च नाणाः प्रकीर्तिताः" ॥२॥ ब्रह्मसूः ऋष्यकेतुः "ऋश्यकेतुः विश्वकेतुः अषकेतुः" इत्यपि पाठान्तरम् । अनिरुद्धः उषापतिः १ अयं श्लोकस्साळपत्रपुस्तके नास्ति । Digtired by Google