पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

15-2 प्रथमं काण्डम्. ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ॥ हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १६ ॥ धाताऽब्जयोनिर्द्धहिणो विरिञ्चिः कमलासनः ॥ स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृविधिः ॥ १७ ॥ ("नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः॥ सदानन्दोरजोमूर्तिः सत्यको हंसवाहनः" ॥१॥) (१) विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।। दामोदरो हृषीकेशः केशवो माधवः खभूः ॥१८॥ दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः॥ पीताम्बरोऽच्युतः शाी विष्वक्सेनो जनार्दनः ॥ १९ ॥ उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ॥ पद्मनाभो मधुरिपुर्वासुदेवत्रिविक्रमः ॥ २० ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ॥ वनमाली बलिध्वंसी कंसारातिरघोक्षजः ॥ २१ ॥ ॥१६॥ धाता अब्जयोनिः द्रुहिणः “दुषणः" विरिचिः “विरिश" कमलासनः स्रष्टा प्रजापतिः वेधाः विधाता विश्वसद् विधिः इति विंशति- प्रक्षणः ॥१७॥ विष्णुः नारायणः नरायणः" कृष्णः वैकुण्ठः विष्टर- श्रवाः दामोदरः । दाम उदरे यस्य । हृषीकेशः । हृषीकाणामिन्द्रिया- मामीशः । केशवः माधवः स्वभूः ॥ १८ ॥ दैत्यारिः पुण्डरीकाक्षः गोविन्दः गरुडध्वजः पीताम्बरः अच्युतः शाही । शृङ्गस्य विकारो धनुः यस्यास्ति सः । विष्वक्सेनः "विश्वक्सेनः" जनार्दनः ॥ १९ ॥ उपेन्द्रः इन्द्रावरजा चक्रपाणिः चतुर्भुजः पमनाभः मधुरिपुः वासुदेवः त्रिविक्रमः ॥२०॥ देव- कीनन्दनः शौरिः "सौरिः" श्रीपतिः पुरुषोत्तमः वनमाली बलिध्वंसी कैसारातिः अधोक्षजः ॥२१॥ विश्वम्भरः कैटभजित् विधुः श्रीवत्सलाञ्छनः । श्रीयुक्तो वत्सः श्रीवत्सः केशावर्तविशेषः लाञ्छनं चिई यस्य । उक्त च १ अयं श्लोकस्तालपत्रपुस्तकेऽपि नास्ति ॥ Digitized by Google