पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6-10 प्रथमं काण्डम्. १] अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः॥ सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥७॥ आदितेया दिविषदो लेखा अदितिनन्दनाः ।। आदित्या ऋभवोऽस्वमा अमर्त्या अमृतान्धसः॥८॥ बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः॥ वृन्दारका दैवतानि पुंसि वा देवता स्त्रियाम् ॥ ९॥ आदित्यविश्ववसवस्तुषितामाखरानिलाः॥ महाराजिकसाध्याश्च रुद्राश्च गणदेवताः॥१०॥ वामलोपो न । त्रिदिवः त्रिदशालयः सुरलोकः द्यौः द्यौः त्रिविष्टपम् इति नव नामानि स्वर्गस्य । तत्र स्खरित्यव्ययं "स्वरादिनिपातमव्ययम्" इति सूत्रात् । लिसंख्याकारकाभाववदित्यर्थः । योदिवौ द्वे स्त्रीलिङ्गे । द्यौर्गोवदाद्यः । द्यौः दियौ दिवः धुभ्यामित्यादिरपरः। त्रिविष्टपं क्लीबे नपुंसके एव । त्रिदशालयादयः सुरसदनादिशब्दोपलक्षकाः । एवमुत्तरत्रापि अर्थसाम्येन पर्यायान्तराणि खयमूलानि । त्रियौ क्लीवे इत्यपि पाठः ॥ ६ ॥ अमराः निर्जराः देवाः त्रिदशाः विबुधाः सुराः सुपर्वाणः सुमनसः त्रिदिवेशाः दिवौकसः “दिवो- कसः"॥ ७ ॥ आदितेयाः दिविषदः लेखाः अदितिनन्दनाः आदिला: ऋभवः अस्वमाः अमाः अमृतान्धसः॥ ८ ॥ बहिर्मुखाः। बर्हिरमिः मुखं वेषाम् । ऋतुभुजः गीर्वाणाः "गीर्वाणाः " दानवारयः वृन्दारकाः दैवतानि देवताः इति षड्विंशतिर्नामानि देवानाम् | व्यक्तिवाहुल्याबहुवचनप्रयोगः । विकल्पेन दैवतशब्दः पुंसि । यथा दैवतमिदं दैवतोऽयमिति । देव एव देवता खायें तल् ॥ ९॥ अथ सङ्घचारिण आह । आदित्येति । "आदित्या द्वादश प्रोक्ता विश्वे देवा दश स्मृताः । वसवश्चाष्ट संख्याताः पत्रिंशसुषिता मता" ॥१॥"आभाखराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा ॥२॥"साध्या द्वादश विख्याता रुद्राएकादश स्मृताः ॥आदित्या द्वादशे । विश्वेदेवा दर्श । वसवोष्टौ । तुषिताः पैत्रिंशत् । आभास्वराः चतुःषष्टिः । अनिला एकोनेपश्चाशत् । महाराजिकाः विंशत्यधिकशेर्तद्वयम् । साध्या द्वादेश । रुद्रा एकादश । एता गणदेवताः । अत्र तुषिताद्या गणा बौद्धपातञ्जलादौ द्रष्टव्याः ॥ १० ॥ देवयोनीनाह । विधेति । विद्याधरा जीमूतवाहनादयः । अप्सरसो देवानाः । यक्षाः कुबेरादयः । रक्षांसि माया- Dighizod by Google