पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० डः । ‘जिह्मगोऽहौ च मन्दगे' इति विश्वः ॥ ( २४ ) ॥ ॥ पवनोऽशनं यस्य ॥ (२५) ॥ ॥ पञ्चविंशतिः 'सर्पमात्रस्य' ॥ त्रिष्वाहेयं विषास्थ्यादि त्रिष्विति ॥ अहौ भवम् । 'हतिकुक्षि - ' ( ४ | ३|५६ ) इति ढञ् स्त्रियां 'टिड्ढा~-' (४|१११५ ) इति डीप् ॥ (१) ॥ * ॥ आदिना कचुकादि ॥ एकम् 'सर्पविषास्थ्यादेः' | | स्फटायां तु फणा द्वयोः । स्फटायामिति ॥ स्फटति | 'स्फट विकसने' ( चु०प० से० ) चौरादिकः । णिजभावे पचायच् ( ३।१।१२४ ) ॥ ॥ ‘फटा' इति क्वचित्पाठः । पृषोदर|दिः (६।३।१०९) ('फटा तु कितके फणे’ ) ॥ (१) ॥ * ॥ फणति | ‘फण गतौ' ( भ्वा० प० से० ) । अचूं (३।१।१३४ ) ॥ (२) ॥ ॥ 'द्वैयोः' इत्य नेन ‘स्फटा’ अपि संबध्यते— इति स्वामी ॥ द्वे 'फणायाः' ॥ समौ कञ्चुकनिर्मोको समाविति ॥ कञ्चते । ‘कचि दीप्तिबन्धनयोः' (भ्वा० आ० से ० ) । बाहुलकादुकन् । 'कञ्चको वारवाणे स्यान्नि- र्मोके कवचेऽपि च । वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके । कञ्जुक्यौषधिमेदे च ' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ निश्च- येम मुच्यते ॥ कर्मणि घञ् ( ३।३।१९ ) । 'निर्मोको मो- चने ब्योम्नि संनाहे सर्पकचुके’ ॥ (२) ॥ ॥ द्वे 'सर्पत्वचः' ॥ क्ष्वेडस्तु गरलं विषम् ॥ ९॥ क्ष्वेड इति ॥ क्ष्वेडते मोहृयति । अच् ( ३ | १ | १३४ ) । विद्यन्त्यनेन वा । 'जिविदा स्नेहनमोचनयोः' । 'मोहनयोः' इत्येके (भ्वा० प० से०, दि० प ० ) । 'हलच' ( ३।३।१२१ ) इति घन् । पृषोदरादिः ( ६।३।१०९ ) । 'क्ष्वेडो ध्वनौ कर्णामये विषे । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्कपर्णफले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले चाच्यलिङ्गः प्रकीर्तितः' ॥ (१) ॥ ॥ गिरति जीवम् 'गृ निग- रणे' ( तुं० प० से ० ) | अच् ( ३ | १ | १३४ ) | गरं लाति । 'ला दाने' ( अ० प० अ० ) | कः ( ३ | २ | ३ ) | भावपरत्वं, गरशब्दस्य । गिरतेर्बाहुलकादलच् वा । 'गरलं पन्नगविषे तृणपूलकमानयोः' इति हैमः ॥ ( २ ) ॥ * ॥ वेवेष्टि कायम् । 'विष्ट व्याप्तौ' ( जु० उ० अ० ) 'विष विप्रयोगे' (या०प० से० ) वा । 'इगुपध-' (३|१|१३५ ) इति कः । 'गरले विषमम्मसि च स्त्रियामतिविषायाम्' इत्यूष्मविवेकान्मूर्ध- न्यान्तम् । ‘पुंसि क्लीबे च’ इति विषेणापि केचित् ॥ (३) ॥ ॥ त्रीणि 'विषमात्रस्य' || पुंसि क्लीबे च काकोलकालकूटहलाहलाः । सौराष्ट्रिक: शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ दारदो वत्सनाभश्व विषभेदा अमी नव । पुंसीति ॥ ईषत् कोलति । 'कुल संस्त्याने' (भ्वा०प० १- 'इयोर्वर्तमानायां स्फटायां फणापि द्वयोः' इति केचित् । नैषा ग्रन्थकद्रीतिः - इति पीयूषम् ॥ अमरकोषः । [ प्रथमं काण्डम् से० ) अच् ( ३।१।१३४ ) | 'ईषद च' ( ६ | ३ | १०५ ) इति कोः कादेशः । 'काकोलो नरकान्तरे, नाकुलाले द्रोण- काके, विषभेदे च न स्त्रियाम् ॥ ( १ ) ॥ * ॥ कालमपि कूट- यति । 'कूट परिदाहे' ( उ० से ० ) चुरादिः | 'कर्मण्यण्’ (३। २१ ) | कालस्य कर्मणो मृत्योर्वा कूटो राशिरिव-इति वा ॥ (१) ॥ * ॥ हलति जठरम् 'हल विलेखने' (भ्वा०प० से ० ) | न हलति आहलति वा अच् ( ३।१।१३४ ) | अहलम् --आ- हलम्, वा । ततः कर्मधारयः |हाला इव, हलतीति वा | हलमिव हलति | अच् ( ३ | १ | १३४ ) प्रज्ञाद्यण् (५॥३॥ ३८ ) । 'हालाहलं हालहलं वदन्त्यपि हलाहलम्' इति द्विरूपकोषः । 'गोनीसगोनसौ, हालाहलं हालहलं विषम्' इति त्रिकाण्डशेषः । 'हलाहलस्तु हयलालोरगे विषे । ज्ये- ठ्यां च' इति हैमः ॥ (१) ॥ एते त्रयः क्लीबपुंसोः ॥ ॥ सौ- राष्ट्र देशभेदे भवः । अध्यात्मादित्वात् ( वा० ४ | ३|६० ) ठन् । 'सारोष्ट्रिकः' इति पाठः - इति मुकुटः । सुराष्ट्रे भव इति तु खामी ॥ (१) ॥*॥ शुक्लिके देशे भवः । ‘दृतिकुक्षि—’ ( ४१३५६ ) इति योगविभागादृञ् ॥ (१) ॥ ॥ ब्रह्मणैः पुत्रः । ( ब्रह्मपुत्रः क्ष्वेडभेदे नदभेदे च पुंस्ययम्' ) ॥ (१) ॥ ॥ प्रदीपयति णिच् ( ३।१।२६ ) नन्द्या दिल्युः (३।१।१३४ ) ॥ (१) ॥ * ॥ दरदि देशे भवः । 'दारदो विषमेदे परदे हिडले पुमान् ॥ (१) ॥*॥ वत्सान् नभ्नाति | ‘णभ हिंसायाम्' (ऋया० प० से ० ) । 'कर्मण्यण' ( ३।२।१ ) वत्सस्य नाभिरिव नाभिरस्येति वा । अच् प्रत्यन्ववपूर्वात्- (५१४१७) इति योगविभागादच् ॥ ( १ ) ॥ ॥ 'स्थावरविषमेदानां' प्रत्ये- कम् ॥ विषवैद्यो जाङ्गुलिक: विषेति ॥ विद्यामधीते वेत्ति वा । 'तदधीते तद्वेद' ( ४ | २।५९ ) इत्यण् | विषस्य वैद्यः ॥ (१) ॥॥ जाङ्गुलीं विषवि यामधीते वेद वा । वसन्तादित्वात् (४|२|६३ ) ठक् | 'परी- क्षितं समश्नीयाज्जाङ्गुली मिर्भिषग्वृतः ॥' जाङ्गुल्या दीव्यतीति वा । 'तेन दीव्यति' (४|४|१) इति ठक् ॥ (२) ॥ * ॥ द्वे 'गारुडिकस्य' ॥ व्यालग्राह्याहितुण्डिकः ॥ ११ ॥ व्यालेति ॥ व्यालं गृह्णाति | 'नन्दिग्रहि-' (३।१।१३४ ) संबध्यते इति इति णिनिः ॥ (१) ॥ * ॥ अहेतुण्डं मुखम् । तेन दीव्यति। १- यथा 'स्निग्धं भवत्य मृततुल्य महो कलत्रं हालाहलं विषमिवाप्रगुणं तदेव' यथा 'काममपायि मयेन्द्रिय कुण्डैयद्यपि दुष्कृतहालहलौघः' यथा वा 'मधु तिष्ठति वाचि योषितां हृदये हालहलं महाविषम्' इति स्वामी । 'कस्य सह्यो हलाइलः' इत्यनेकार्थकैरवाकरकौमुदी ॥ २ - गोनासगो- नसौ लोकार्धपतितत्वेनोक्तौ न प्रकृतोपयुक्तौ ॥ ३-'त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः' इति याज्ञवल्क्योक्तेः- इतिस्वामिमु धमनोहराः ॥