सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातालभोगिवर्ग: ८ ] विधानात् । परत्वादुपपदसमासस्य ( २ | २१९ ) न्याय्यत्वाच ॥ (२) ॥ * ॥ द्वे 'निर्विष॑स्य द्विमुखस्य सर्पस्य || मालुधानो मातुलाहि: व्याख्यासुधाख्यव्याख्यासमेतः । माल्विति ॥ मारोषधी । तत्र धानमस्य | 'मालु धानश्चित्रसर्फे महापद्मे च दृश्यते' इत्युत्पलिनी । 'मालु- धानो मातुलाहौ मालुधानी लतान्तरे' इति विश्वः ॥ (१) ॥ * ॥ मां तुलयति । कः । मूलविभुजादिः ( वा० ३।२।५ ) | मातुलश्चासावहिश्च ॥ (२) ॥ ॥ द्वे 'चित्रसर्पस्य' ॥ निर्मुक्तो मुक्तकञ्जुकः । निर्मुक्त इति ॥ अमोचि । मुक्तः - कचुकः । नास्ति मुक्तोऽस्य । 'निर्निश्चयनिषेधयोः' । निर्मुक्तस्त्यक्तसङ्गे स्यान्मु- ‘क्तकचुकभोगिनि’ ॥ (१) ॥ * ॥ मुक्तः कक्षुको येन ॥ (२) ॥ * ॥ द्वे 'मुक्तत्वचः सर्पस्य || सर्पः पृदाकुर्भुजगो भुजंगोऽहिर्भुजंगमः ॥ ६ ॥ आशीविषो विषधरश्चक्री व्यालः सरीसृपः । कुण्डली गूढपाञ्चक्षुःश्रवाः काकोदरः फणी ॥ ७॥ दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः । उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥ सर्प इति ॥ सर्पति । 'सृप गतौ' (भ्वा० प० से ० ) । अच् ( ३।१।१३४ ) ‘इगुपध–’ (३।१॥१३५ ) इति को वा । ‘नोक्तमनित्यम्' इति गुणः । यद्वा सर्पणम् । भावे घञ् । सर्पः । सोऽस्यास्ति । अर्शआद्यच् । (५।२/१२७) स्त्रियां जातिवा, न्ङीष् (४।१।६३ ) ॥ (१) ॥ ॥ पर्दते । ‘पर्द कुत्सिते शब्दे' (भ्वा॰ आ॰ से०)। ‘पर्देर्नित्सं प्रसारणमलोपश्च' ( उ० ३१८०) इति काकुः प्रत्ययः । पिपर्ति खम् । 'पिपर्दाकुर्हखश्च' (*) इति वा । ‘पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोः पुमान्' ॥ ( २ ) ॥ ॥ 'भुजो कौटिल्ये' ( तु०प० अ० ) इगुपधत्वात (३।१।१३५ ) कः । भुजः सन् गच्छति । 'अन्यत्रापि' (वा० ३।२।४८ ) इति उः ॥ (३) ॥ * ॥ 'भुजेन कौटिल्येन गच्छति' वा । ‘गमेः सुपि’ ‘खच्च डिद्वा’ ( वा० ३१२१३८ ) इति खचि डित्त्वे टिलोपे भुजंगः । भुजंगः सर्पखिमयोः' इति हैमः ॥ (४) ॥ ॥ आहन्ति । ‘आङि हिनिभ्यां ह्रस्वश्च' ( उ० ४। १३८ ) इतीन् डित् । ‘अहिर्वृत्रासुरे सर्पे पुंसि ॥ (५) ॥ ॥ खच्यडित्त्वे भुजंगमः ॥ (६) || 'आशीस्तालगता दंष्ट्रा तया विद्धो न जीवति । तत्र विषमस्य | पृषोदरादित्वात् ( ६।३।१०९ ) दीर्घसलोपौ । केचित्त्वीकारान्तमाशीशन्दमाहुः । ‘आशीमिव कलामिन्दोः” इति राजशेखरः ॥ (७) ॥॥ वि- षस्य धरः ॥ (८) ॥*॥ चक्रमस्यास्ति । 'अत इनिः' ( ५|२| ११५ ) । 'चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि' इति हैमः ॥ (९) ॥*॥ व्याडति । 'अड उद्यमे' ( भ्वा०प० से ० ) १–लक्ष्यं च । ‘किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते' इति स्वामी ॥ २~ भाष्ये तु 'अन्येष्वपि' इति दृश्यते ॥ अमर० १२ ८९ व्यापूर्वः | अच् ( ३ | १ | १३४) । ('व्याडो हिंस्रपशौ सर्पे ) ॥ ॥ डलयोरेकत्वस्मरणात् व्यालोऽपि । 'व्यालो दुष्टगजे सर्पे खले श्वापदसिंहयोः' इति विश्वमेदिन्यौ ॥ (१०) ॥*॥ कुटिलं सर्पति | 'नित्यं कौटिल्ये गतौ' ( ३।१।२३ ) इति यङ् । पचायच् (३।१।१३४) । 'योऽचि च ' ( २४।७४) । 'संसार- सारस - सरीसृप सस्य - सास्नाः' इति द्विदन्त्ये ऊष्म- विवेकः ॥ (११) ॥ ॥ कुण्डलं कुण्डलाकारतास्यास्ति । इनिः (५/२/११५ ) | यत्तु मुकुटः- चयं तु कुण्डलमनुकरोती ति 'कुण्डलशब्दात् प्रातिपदिकाद्धात्वर्थणिजन्तात् घञर्थे के ( वा० ३१३१५८ ) कुण्डलं कुण्डलनं कुण्डलानुकरणम् । तद्यो- गाद् 'इनिः' ( ५/२/११५ ) ' कुण्डली' इति ब्रूमहे-इत्याह । तन । परिगणनात् काभावात् । प्राचामेव फलितार्थस्य ला- भात् । 'कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते ॥ (१२) ॥ ॥ गूढाः पादा अस्य | पृषोदरादिः (६।३।१०९) 'पादा- नामपि विज्ञेये द्वे शते द्वे च विंशती' इत्यागमः । यद्वा गूढं पादयति | 'पद' गतौ' ( दि० आ० अ० ) । ण्यन्तात् ( ३ ॥१॥ २६) क्किप् (३।२।१७८ ) ॥ (१३) ॥ ॥ चक्षुः श्रवः कर्णो- ऽस्य | सान्तः ॥॥ अत एव 'गोकर्णः' अपि । ( 'गोकर्ण: प्रमथान्तरे । अनुष्ठानामिकोन्माने मृगेऽश्वतरसर्पयोः' ) ॥ ( १४ ) ॥ * ॥ काकस्येवोदरमस्य । यद्वा -- ईषदकति । 'अक कुटिलायां गतौ ' ( भ्वा० प० से ० ) । 'ईषदर्थे च’ ( ६॥३॥ (१५) ॥ * ॥ फणास्यास्ति । त्रीह्यादिः (५१२१११६) फणो- १०५ ) कोः कादेशः काकम् - ईषत्कुटिलगतिमद्-उदरमस्य || ऽस्यास्ति वा । अत इनिः (५/२/१०५) ॥ (१६) ॥*॥ द- यकार: फण एव करो यस्य प्रहारसाधनत्वात् । दर्वी फणं करोति, इति वा । 'कृो हेतु-' (३।२।२० ) इति टः ॥ (१७ ) ॥ ॥ दीर्घ पृष्ठमस्य ॥ ( १८) ॥*॥ गर्हितं दशति। 'लुपसद - ' ( ३।१।२४ ) इति यङ् । ‘जपजभ-' ( ७१४१८४) इति नुकि अनुखारः (८/२|१२४) । ‘यजजप-’ (३।२। १६६ ) इत्यूकः । 'दन्दशकस्तु पुंलिङ्गो राक्षसे च सरीसृपे’ ॥ (१९) ॥*॥ बिले शेते । 'अधिकरणे शेतेः' ( ३।२।१५ ) मूषिकेऽहौ' इति हैमः ॥ (२०) ॥ ॥ उरसा गच्छति । ‘उ- इत्यच् । ‘शयवास-' ( ६|३|१८) इयलुक् । 'बिलेशयो रसो लोपश्च' (वा० ३।२।४८) इति ङः ॥ (२१) ॥*॥ पनं पतितं यथा तथा गच्छति । 'सर्वत्रपन्नयोः' ( वा० ३॥२॥ ४८ ) इति डः । 'पन्नग चौषधीभेदे तथैव पवनाशने' ॥ (२२) ॥ ॥ भोगः फणो वक्रगतिर्वास्यास्ति । इनिः (५॥२॥ विहाय महिषीमन्यराजयोषिति भोगिनी' ॥ (२३) ॥*॥ ११५ ) । 'भोगी भुजंगमेऽपि स्याद्राममात्रे नृपे पुमान् । जिह्म॑ कुटिलं गच्छति । 'अन्येभ्योऽपि–’(वा० ३।२।१०१) इति १ - भत्र तु कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । काञ्चनद्रुगुडूच्योः स्त्री केवलः कुहनेऽपि च' इत्युपलभ्यते ॥ तत्तु न सर्पपर्यायबोधकम् ॥