पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाट्यवर्गः ७] स्यादाच्छुरितकं हासः सोत्प्रासः स्यादिति ॥ उत्प्रासनम् । 'असु क्षेपणे ' (दि०प० से ० ) | ‘अस गतिदीप्त्य़ादानेषु’ (भ्वा० उ० से ० ) | वा घञ् ( ३॥ ३।१८)। उत्प्रासेनाधिक्येन क्षेपणेन वा सहितः सोत्प्रासः । आच्छुरणं परच्छेदनं । 'छुर छेदने' ( तु० प० से ० ) । भावे ‘क्तः (३।३।११४)। स्वार्थे कन् (५१३१७७) भावे 'स्यादा- च्छुरितकं हासनखराघात भेदयोः ॥ (१) ॥ * ॥ एकं 'पर- स्थामर्षजनकहासस्य' || व्याख्यासुधा ख्यव्याख्यासमेतः । स मनाकू स्मितम् ॥ ३४ ॥ स इति ॥ स हासो मनागल्पः । 'स्मिङ् ईषद्धसने' (वा० आ० अ०) । भावे क्तः (३|३|११४) 'ईषद्विकसि - तैर्दन्तैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत्’ ॥ (१) ॥*॥ एकम् 'ईषद्धासस्य' || . मध्यमः स्याद्विहसितम् मध्यम इति ॥ स हासो मध्यमो महत्त्वात्पत्वहीनः । 'इसे इसने' ( भ्वा० प० से ० ) | भावे क्तः ( ३ | ३ | ११४ ) 'आकुश्चितकपोलाक्षं सस्वनं निःस्वनं तथा । प्रस्तावोत्थं सानु- रागमा हुर्विहसितं बुधाः' ॥ ( १ ) ॥ * ॥ एकम् 'मध्यमहा- सस्य' ॥ रोमाञ्चो रोमहर्षणम् । रोमाञ्च इति ॥ रोम्णामञ्चनं पूजनम् । घञ् (३।३।११८ ) ‘चजो:--' (७४/५२) इति सूत्रे 'निष्ठायामनिटः' इति पूरि- तत्वादस्मात्तु 'अञ्चे: पूजायाम् (७७२/५३) इति क्त्वानि ष्ठयोरिड्विधानाच कुत्वम् । यत्तु – 'नक्कादेः' ( ७७३/५९ ) इति योगविभागान कुत्वम् - इति भाषावृत्त्युपन्यसनं मुकु- टस्य । तन्न । तस्य वार्तिककृता ( 'निष्ठायामनिटः' इति वार्तिकेन ) प्रत्याख्यानात्। यथोत्तरं मुनीनां प्रामाण्यात् ॥ (१) ॥ ॥ रोम्णां हर्षणम् ॥ ( २ ) ॥ ॥ पुलक-कण्टक रोम- विक्रिया–रोमोद्गमाश्चात्रैव । ( 'पुलको गजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे | असुराज्यां मणिदोषे चषके तालके कृमौ' ) । ( 'कण्टक: क्षुद्रवैरिणि । वेणौ दुमा रोमाञ्चे' | 'पुलकः पुनः । रोमाञ्चकण्टको रोमविक्रिया रोमहर्षणम् । रोमोद्गम उद्धर्षणमुल्लासनकमियपि ' । इति हैमात ) । द्वे 'रोमाञ्चस्य' ॥ ८५ जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥ जृम्भ इति ॥ 'जृभि गात्र विनामे' ( भ्वा० आ० से ० ) । घञ् (३|३|१८ ) 'गुरोश्च - ' ( ३१३ | १०३ ) इत्यः | 'जृम्भा विकासजृम्भणयोत्रिषु' । घन्तस्यैव क्लीबत्वमपि । “लिङ्ग- शेषविधिर्व्यापी विशेषैर्यद्यचाधितः' इति वक्ष्यमाणत्वात् । यत्तु - जृम्भं तु, अधिौ भयाधिपाठात् इति मुकुटेनो- क्तम् । तन्न । 'अज्विधौ' इत्युक्तत्वेन क्लीबत्वस्याविधानात् ॥ (१) ॥ ॥ ल्युटि (३।३।११५) जृम्भणम् ॥ ( २ ) ॥॥ द्वे 'मुखादिविकासस्य' ॥ विप्रलम्भो विसंवादः विप्रेति ॥ विशेषेण प्रलम्भनम् । 'डुलभष् प्राप्तौ' (भ्वा० आ० अ० ) । विरुद्धं सम्यक् वदनम् | घञ् ( ३ | ३ | १८ ) ॥ (१) ॥ ॥ (२) ॥॥ द्वे 'अङ्गीकृतासंपादनस्य' ॥ रिङ्गणं स्खलनं समे । रिङ्गणमिति ॥ 'रिगि गतौ ' ( भ्वा०प० से ० ) । 'स्खल संचलने' ( भ्वा०प० से ० ) | भावे ल्युट् ( ३ |३।११५)॥ (१) ॥ ॥ (२) ॥ ॥ 'रिखि गतौ ' ( भ्वा० प० से ० ) इ. |त्येके ( तन्मते रिङ्गणम्) । द्वे 'धर्मादेश्चलनस्य' - इति खामी, बालानां हस्तपादगमनस्य- इत्यन्ये, पिच्छिलादौ पत- नस्य इत्यपरे ॥ स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ ३६ ॥ स्यादिति ॥ निद्राणम् । 'द्रा कुत्सायां गतौ' ( आ० प० अ० ) । 'आतश्चोप- ' ( ३|३|१०५ ) इत्यङ् । निन्दनम्, निन्द्यतेऽनया, इति वा । 'निन्देर्नलोपश्च' ( उ० २११७ ) इति रग्, इति वा ॥ (१) ॥ ॥ ‘शीङ् स्वप्ने' (अ० आ० से ० ) । भावे ल्युट् ( ३।३।११५ ) । 'शयनं सुरते निद्राशय्ययोश्च नपुंसकम् ॥ ( २ ) ॥ ॥ 'जिष्वप् शये' ( अ० प० अ० ) | घञ् (३|३|१८ ) | 'स्वापः शयननिद्रयोः । स्पर्शाज्ञतायाम- ज्ञाने' ॥ ( ३ ) ॥ * ॥ 'स्वपो नन्' ( ३।३।९१ ) । ‘स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान् ॥ ( ४ ) ॥ ॥ संवेशनम् | 'विश प्रवेशने' ( तु०प०अ० ) | घञ् (३ | ३ | १८ ) | 'संवेश: स्वापनीरतबन्धयोः' ॥ (५) ॥ * ॥ 'सुप्तिः' अप्यत्र । ('सुप्तिः स्पर्शाज्ञतानिद्राविश्रम्मे शयने स्त्रियाम्' इति मेदिनीतः ) ॥॥ पश्च 'निद्रायाः' || तन्द्री प्रमीला ऋन्दितं रुदितं ॠष्टम् तन्द्रीति ॥ तत्पूर्वाद्रातेः 'स्पृहिगृहि-' ( ३।२।१५८ ) ऋन्दितमिति ॥ 'ऋदि रोदने' ( भ्वा०प० से० ) । इत्यादिना 'तन्द्रा' इति निपात्यते । तन्द्रायाः करणम् । तः ( ३।३।११४ ) 'अथ क्रन्दितमाहाने रुदिते च नपुंस- 'तत्करोति -' ( वा० ३१११२६ ) इति ण्यन्ताद् 'अच इः' कम्’ ॥ (१) ॥*॥ ‘ऋदिर् अश्रुविमोचने' (अ० प० से ० ) । ( उ० ४ | १३९ ) | तन्द्रिः । 'कृदिकारात्-' (ग० ४॥ १॥ भावे कः ( ३।३।११४ ) ॥ (२) ॥ * ॥ 'कुश रोदने' (भ्वा० ४५ ) इति ङीष् वा । 'तन्द्री निद्राप्रमीलयोः' । णिजभावे प० से० ) । क्तः (३।३।११४) । ('क्रुष्टुं रोदनरावयोः' | 'तन्द्रा' इत्यपि | मुकुटस्तु - इन्द्रियाणां तननं द्रात्यस्याम् । (३) ॥ * ॥ त्रीणि 'रोदनस्य' ॥ तन्द्रधातोः सौत्रान्मूर्च्छार्थात् 'तन्द्रेरिदीतौ' इति हस्खेकार-