पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । (३।३।११४) । ‘वक्तव्यभाषणं व्याजाद्विहृतं दर्शितेङ्गितम्' ॥ (१) ॥ ॥ इति ॥ द्रवकेलिपरीहासाः क्रीड़ा खेला च नर्म च ॥ ३२ ॥ द्रवेति ॥ द्रव्रणम् । ‘द्रु गतौ ' ( भ्वा०प० अ०) । 'ऋ- दोरप्' (३।३।५७) । 'ट्रॅवो विद्रवर्मणोः । प्राद्रवे रसगत्योश्च' इति हैमः ॥ (१) ॥*॥ केलनम् | 'किल क्रीडायाम्' (तु० प० से ० ) । 'केल्ट चलने' (भ्वा० प० से ० ) वा । इन् (उ ४२११८ ) | ( केली इति स्त्रियामपि । 'केलीषु तद्वानगुणान्नि- पीय’ इति नैषधात् । इति मुकुटः ) ॥ (२) ॥ ॥ परिहसनम् 'हसे हसने' (भ्वा० प० से ० ) । घञ् ( ३ | ३ | १८ ) | 'उपसर्गस्य घञि' (६।३।१२२) इति दीर्घः ॥ (३) ॥ ॥ क्रीडनम् । 'क्रीडू विहारे' (भ्वा०प० से ० ) । 'गुरोश्च - ' ( ३|३|१०३) इयः । 'क्रीडा केलिप्रकारे स्यात्खेलावैज्ञानयोरपि' (इति विश्व मेदिन्यौ) ॥ (४) ॥*॥ खेलनम्। 'खेल चलने' (भ्वा०प० से० ) । 'गुरोश्च - ' ( ३|३|१०३) इत्यः | मुकुटस्तु 'खेला' इत्यस्य स्थाने 'लीला' इति पठति ॥ (५) ॥ ॥ नरणम् । 'नृ नये' (भ्वा० प० से ० ) । मनिन् (३१२|७५ ) ॥ ( ६ ) ॥ * ॥ षट् 'क्रीडायाः' ॥ [ प्रथमं काण्डम् यत्तु – 'स्फूर्ज' इति लिङ्गात् कुर्दादीनां न दीर्घः (इति धर्म- दासः) । ‘र्वोः' इति विधेरनित्यत्वम् - इति कश्चित् (पूर्णचन्द्रः) आह । तन | 'स्फुर्ज' इति स्वरूप निर्देशार्थं दीर्घानुञ्चारणात् । दीर्घविधेः सत्त्वाच्च । यदि 'विधिप्राप्तं कृत्वैव निर्देष्टव्यम्' इति नियमः स्वीक्रियते तदा 'एशिरेचोरेत्वाभावस्याज्ञापकत्वं स्यात्’ स्वामिग्रन्थोऽपि संगच्छते ॥ (३). ॥ * ॥ त्रीणि 'कन्दुकादि- एत्वस्य लक्षणप्राप्तत्वात् । अतएव 'दीर्घाभावस्तु चिन्त्यः' इति क्रीडनस्य' ॥ १ –'अवसरागतं वचनं घ्याजादिना हृतं विहृतम्' इति मुकुटः ॥ २ – विद्रवे पलायने यथा 'द्रवन् द्रविडराजोऽपि शिश्रिये त्वरया द्रुतम् । प्राद्रवे प्रस्रवणे यथा- 'जात्येन चन्द्रमणिनैव महीधरस्य संचार्यते द्रवमयो मनसो विकारः" इत्यनेकार्थकैरवा करकौमुदी ॥ श्–‘आसवे’ इति पाठः पुस्तकान्तरे ॥ ४-अवशाने अनादरे यथा- ‘तस्य द्वयमपि क्रीड। क्रीडा दलितदन्तिनः' इत्यनेकार्थकैरवा करकौमुदी || ५–परिहासस्य–इति बुधमनोहरा ॥ ६ - व्याजोऽत्र स्वरूपाच्छाद- मम् । यथा ‘ध्यानन्याजमुपेत्य चिन्तयसि काम्' इति । पूर्वोक्तो व्याजः परद्रोहफलः । तथा च पचिकायाम् -- 'कपटार्थो व्याजः परद्रोइफलः, अपदेशार्थस्त्वन्यदुद्दिश्यान्यार्थमनुष्ठानम् । यथा जलकीडामपदिश्या- न्यार्थ याति' इति इति मुकुटः ॥ धर्मो निदाघः स्वेदः स्यात् घर्म इति ॥ जिघर्त्यङ्गमनेन । 'घृ क्षरणदीप्योः' (जु० प० अ० ) । 'धर्म- ' ( उ० १११४९ ) इति निपातितः । यत्तु - 'घरति' इति विग्रहप्रदर्शनं मुकुटेन कृतम् । तत्तु 'घृ क्षरणे' इति धातूपन्यसनेन विरुध्यते । घरलङ्गमनेन वा । 'घृ सेके' (भ्वा०प०अ०) । ( घर्म: स्यादात पे ग्रीष्मेऽप्युष्ण खेदाम्बु- नोरपि' ) ॥ ( १ ) ॥ * ॥ निदह्यतेऽनेन । 'हलच' (३।३।१२१ ) इति घन् । न्यङ्कादिः (७|३|५३) ॥ (२) ॥ * ॥ स्त्रिद्यतेऽने- नाङ्गम् | घञ् (३।३।१२१) | 'स्वेदो घर्मे वेदनेच' इति हैमः ॥ (३) ॥*॥ त्रीणि ‘प्रस्वेद हेतोस्तापस्य' ।-अङ्गज- लस्य - इति मुकुटः । तन्न | स्वकृतकरण विग्रह विरोधात् । नहि जलेन प्रस्विद्यते । वस्तुतस्तु-भावकर्मव्युत्पत्त्या सोऽप्यर्थः ॥ प्रलयो नष्टचेष्टता ॥ ३३ ॥ व्याजोऽपदेशो लक्ष्यं च व्याज इति ॥ (१) ॥*॥ अपदेशनम् । 'दिश अतिसर्जने' (तुं० उ० अ०) | घञ् (३|३|१८ ) | ('अपदेश: पुमलक्ष्ये निमित्तव्याजयोरपि') ॥ (२) ॥ ॥ लक्षणम् | 'लक्ष आलोचने' प्रलय इति ॥ प्रलयनम् । लीङ् (दि० आ० अ० ) । (चु० आ० से०) । ण्यत् (३|३|१२४) | 'लक्ष्यं स्यादपदे- ‘एरच्’ (३|३|५६) | ‘प्रलयो मृत्युकल्पान्तमूर्च्छापायेषु पुं- शेऽपि शरव्येऽपि नपुंसकम्' इति मेदिनी ॥ ॥ घञन्तोऽपि । ‘संख्यायां च न ना लक्षं क्लीबं व्याजशरव्ययोः' इति मूर्धन्या- स्वयम् ॥ (१) ॥ ॥ नष्टा चेष्टा यस्य | तस्य भावः । तल् (५॥१॥११९) ॥ (२) ॥ ॥ द्वे 'सात्विकभावस्य' मूर्च्छा • परपर्यायस्य । हर्षशोकादिभिः सकलचेष्टानाशस्येत्यर्थः ॥ अवहित्थाकारगुप्तिः न्ते रभसात् ॥ (३) ॥*॥ त्रीणि 'स्वरूपाच्छादनस्य' ॥ क्रीडा खेला च कूर्दनम् । क्रीडेति ॥ (१) ॥ ॥ खेलनम् | 'गुरोश्च' (३|३|१०३) इत्यः ॥ (२) ॥*॥ ‘कुर्द क्रीडायाम्' ( भ्वा० प० से ० ) । ल्युट् (३।३।११५) । ‘र्वोरुपधायाः-' (८|२|७६) इति दीर्घः ॥ अवेति ॥ अवहिः स्थितिरैवहित्या । 'सुपि स्थः' (३| २१४ ) इत्यत्र 'स्थः' इति योगविभागाकः | पृषोदरादिः (६ ३॥१०९) ॥ (१) ॥ * ॥ आकारस्य शोकादिजनितमुखम्लान्या- देर्गोपनम् । क्तिन् (३।३।९४ ) ॥ ( २ ) ॥ ॥ द्वे 'आकार- गोपनस्य' ॥ समौ संवेगसंभ्रमौ । समाविति ॥ संवेजनं संचलनम्। 'ओविजी भयचल- नयोः' ( तु० आ० से ० ) । घञ् (३॥३॥१८) ॥ (१) ॥*॥ संभ्रमणम् | घञ् (३|३|१८ ) | 'संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि ॥ (२) ॥ ॥ द्वे 'हर्षादिना कर्मसु त्वरणस्य' ॥ १–'अवहित्थमथोग्रता' इति भरतोक्तेः कीबमपि - इति मुकुटपी- यूषबुधमनोइराः ॥