पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ अमरकोषः । 'कृमादिभ्यो वुन्' ( उ० ५/३५ ) | कुन् ( उ० २१३२ ) वा । ( 'उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि' ) ॥ (२) ॥ * ॥ स्त्रीत्वेनापि साम्यम् । द्वे 'कामादिजस्मृतेः' । 'चिन्ता तु स्मृतिराध्यानं स्मरणं, सस्पृहे पुनः । उत्कण्ठोत्क- लिके तस्मिन्, अभिध्या तूभयोरपि' इति शब्दार्णवः ॥ उत्साहोऽभ्यवसायः स्यात् [ प्रथमं काण्डम् । से० ) 'इक् कृष्यादिभ्यः' वा० ३।३।१०८) इतीक् । 'निकृतिर्भर्त्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम्' इति विश्व- मेदिन्यौ ॥ (८) ॥ ॥ शठति | 'शठ कैतवे' ( भ्वा०प० से० ) । पचायच् (३|१|१३४) | शठस्य कर्म । ब्राह्मणा- दित्वात् (५1१1१२४) व्यञ् | यद्वा शठनम् । 'ॠहलोर्ण्यत्' (।३।१।१२४) ॥ (९) ॥ ॥ नव 'कपटस्य' ॥ प्रमादोऽनवधानता ॥ ३० ॥ उत्साह इति ॥ उत्सहनम् । 'वह मर्षणे' ( भ्वा० आ० से० ) घञ् (३|३|१८) । 'उत्साहस्तूयमे सूत्रे' ॥ (१) प्रमाद इति ॥ 'मदी हर्षे' ( दि० प० से० ) | भावे ॥ ॥ अध्यवसानम् । 'षोऽन्तकर्मणि' ( दि०प० अ० ) । घञ् (३|३|१८ ) | + प्रमाद: संमदे मत्ते स्त्रियामुन्मदयो- घञ् (३।३।१८) ‘आतो युक्' (७|३|३३) ॥ (२) ॥ ॥ द्वे | षिति+' ॥ (१) ॥ * ॥ न अवधानमस्य | तस्य भावः ॥ (२) ॥ * ॥ द्वे 'अविमृष्टकृत्यस्य' || 'उत्साहस्य' ॥ स वीर्यमतिशक्तिभाक् ॥ २९ ॥ स इति ॥ स उत्साहः अतिशक्तिभाक् | वीरे साधु । ‘तत्र साधुः’ (४|४|९८) इति यत् । ('वीर्य तेजःप्रभा- वयोः । शुक्ने शक्तौ च’) ‘अतिशयशक्तिवर्या' इति लमर- मालायां स्त्रीत्वम् ॥ (१) ॥ * ॥ एकम् 'अतिशयिताध्य वसायस्य' || कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुसृतिर्निकृतिः शाठ्यम् कपट इति ॥ के मूर्ध्नि पट इवाच्छादकः । यद्वा पट तीति पटः । ‘पट गतौ’ (भ्वा०प० से ० ) | पचायच् (३) १।१३५) । कस्य ब्रह्मणोऽपि पटो व्यापकः ॥ (१) ॥ ॥ व्यजन्ति क्षिपन्त्यनेन । 'अज गतिक्षेपणयोः' ( भ्वा० पं० से ० ) । 'हलच' (३।३।१२१) इति घम् | निष्ठायां सेट् त्वान्न कुत्वम् । ‘ब्याजः शाठ्येऽपदेशे च' इति विश्वः ॥ (२) ॥*॥ दभ्यतेऽनेन । 'दम्भु दम्भने' ( खा०प० से ० ) । घव् (३।३।१८)। ‘दम्भः कल्के कैतवे च' इति हेमचन्द्रः ॥ (३) ॥ ॥ उपधीयत आरोप्यतेऽनेन । 'उपसर्गे घोः किः' ( ३१३१९२ ) । 'उपधिर्व्याजचकयोः ॥ ( ४ ) | || छाद्य- तेऽनेन । 'छद अपवारणे' ( चु० उ० से ० ) मनिन् (३) २।७५)। ‘इस्मन्नन्क्विषु च’ (६।४१९७) इति हवः । ('छद्म शाठ्येsपदेशे घातिकर्मणि ) ॥ ( ५ ) ॥ ॥ कितवस्य कर्म । युवादित्वात् (५॥१॥१३०) अण् । 'कैतवं द्यूतेदम्भयोः' इति हैमः ॥ (६) ॥*॥ कुत्सिता सृतिः । 'सृ गतौ' ( भ्वा० ५० से ० ) | तिच् (३।३।१७४) | 'कुगति' (२२१८) इति समासः ॥ ( ७ ) ॥ ॥ निकृष्टा कृतिः किया परप्रतारण- रूपा, यद्वा पराभीष्टस्य निकर्तनम् । 'कृती छेदने' ( तु० प० "१ - एतदमे 'कैतवः कितवे शत्रौ' इत्यपि लिखितमासीत् । परंतु हैममेदिन्योः कैरवशब्दस्यैव दर्शनात अनेकार्थ कैरवाकरको मुद्यामपि 'स्त्वयि भास्वत्युदिते सर्वतेजोभिभाविनि | उन्मीरुति धरानाथ किं, कैरवकुलं कन्वित्' इत्येवोदाहृतम् । इति न प्रकृतोपयुक्तम् ॥ कौतूहलं कौतुकं च कुतुकं च कुतूहलम् । कौतूहलमिति ॥ कुतूं चर्मनिर्मितस्नेहपात्रं हलति । 'हल विलेखने' (भ्वा०प० से० ) । मूल विभुजादित्वात् ( वा० ३१२१५ ) कः | यद्वा हलति । पचाद्यच् (३।३।१३४)। प्रज्ञाद्यणि (५१४१३८) कौतूहलम् ॥ कृत्वा हलम् । (१) ॥ ॥ (अणभावे) 'कुतूहलं कौतुके स्यात्प्रशस्तेऽपि च दृश्यते' ॥ (४) ॥*॥ कुतूं कायति । 'कै शब्दे' ( भ्वा० प० अ० ) । 'आतोऽनुप-' (३१२१३ ) इति कः । उपपदस- मासः (२।२।१९) । ‘इको हस्खोऽमय: - (६|३|६१ ) इति हवः | प्रज्ञायण (५१४१३८) वा । यद्वा कुत्वां भवम् । अध्यात्मादित्वात् (वा० ४१३१६०) ठञ् । ‘इसुसुक्–‘ (७१३ १५१ ) इति कः | 'केण: ' (७।४।१३) इति ह्रस्वः । संज्ञापूर्वकत्वात्पक्षे वृद्ध्यभावः । यत्तु - 'तुज हिंसायाम्' ( भ्वा० प० से ० ) | कुं तुजति । 'मूलविभुज - २ (वा० ३। २१५ ) इति कः | न्यङ्क्रादित्वात् (७७३१५३) कुत्वम् इति मुकुटेनोक्तम् | तन | कुत्वे आन्तरतम्याज्जस्य गत्वप्रसङ्गात् । ( 'कौतुकं नर्मणीच्छयामुत्सवे कुतुके मुदि । पारम्पर्यागत- ख्यातमङ्गलोद्वाहसूत्रयोः | गीतादौ भोगकाले च ' ) ॥ (२) ॥*॥ (३) ॥ * ॥ चत्वारि 'कौतुकस्य' ॥ स्त्रीणां विलास विव्वोकविभ्रमा ललितं तथा ॥ ३१ ॥ हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः । स्त्रीणामिति ॥ शृङ्गाराद्रव्यादेः भावान्मनोविकाराच जाताः ( स्त्रीणाम् ) क्रियाश्चेष्टा अलंकाराख्या विलासादिका हावशब्दवाच्याः । हवनम् । 'हु दानादनयोः' ( जु० प० अ० ) । 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' इत्य- व्विषये घञ् (३|३|१८) | यत्तु - मुकुट आह - शृङ्गार" भावो रतिः । तज्जा - इति । तन्न । 'शृङ्गारभावः' इति समुदायस्य रतिवाचकत्वाभावात् । यदपि - हू हवने- १ - प्रमदशब्दव्याख्यायामस्य कोशस्योपन्यस्तत्वेन, प्रमदाशब्द- व्याख्यायामुपन्यसिष्यमाणत्वेन च तत्र मेदिन्यां च प्रमदशब्दस्यैवो- पादानेन नेदं प्रक्कतोपयोगि ॥