पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० अमरकोषः । क्षान्तिस्तितिक्षा क्षान्तिरिति ॥ क्षमणम् । 'क्षम् सहने' दिवादिः । अस्या- षित्त्वात्तिन् ( ३।३।९४ ) | 'अनुनासिकस्य कि- ' ( ६१४ १५) इति दीर्घः ॥*॥ भ्वादेस्तु षित्त्वात् अङ् (३।३।१०४) । तदुक्तम् ‘अषितः क्षाम्यतेः क्षान्तिः पितस्तु क्षमतेः क्षमा' इति । ( 'क्षमः शक्ते हिते युक्त क्षमावति । क्षमा क्षान्तौ | क्षितौ’ इति हैमः ) ॥ (१) ॥ * ॥ तिज़ेः ( भ्वा० आ० से०) क्षमायां सन् (३॥१॥१५) तदन्तादप्रत्यये ( ३।३।१०२ ) टाप् (४॥१॥४) ॥ (२) ॥ * ॥ द्वे 'क्षमायाः' ॥ । अभिध्या तु परस्य विषये स्पृहा । अमिध्येति ॥ अभिध्यानम् | 'ध्ये आध्याने' (भ्वा० ऑ० से ० ) । ‘आतश्च’ ( ३।३।१०६ ) इत्यङ् ॥ (१) ॥ ॥ परस्य विषये चौर्यादिना स्पृहा । 'परस्वविषयस्पृहा' इति पाठे परखे विषयेन चौर्यादिना लिप्सा - इति मुकुटः । वस्तु तस्तु-परस्वविषयविषयिणीच्छेत्यर्थः ॥ ( १ ) ॥ ॥ एकम् 'परद्रव्येच्छायाः' ॥ अक्षान्तिरी अक्षान्तिरिति ॥ न क्षमणम् । क्षाम्यतेः क्तिनि नस- मासः ॥ (१) ॥*॥ ईर्ष्यणम्। 'ईर्ष्य ईर्ष्यायाम्' (भ्वा० प० से० )। ‘गुरोश्च’ (३।३।१०३ ) इत्यः ॥ ( २ ) ॥ * ॥ द्वे 'परोत्कर्षासहिष्णुत्वस्य' ॥ असूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥ असूयेति ॥ असूयनम् । ‘असूज् असूयायाम्' । कण्ड्ढा- दिखायकि (३।१।२७) 'अ प्रत्ययात्' ( ३ | ३ | २०२ ) इत्यः | ‘असूया त्वभ्यसूया च' इति शब्दार्णवः ॥ (१) ॥ ॥ 'अर्थदानादिषु गुणेषु दम्भकत्वादिरूपदोषारोप- णस्य' एकम् ॥ वैरं विरोधो विद्वेष: वैरमिति ॥ वीरस्य कर्म | '– वैर मैथुनिकयोः' ( ४१३ | १२५) इति निर्देशात् । युवादित्वात् (५॥१॥१३०) वाण् ॥*॥ ( १ ) ॥ ॥ विरोधनम् | विद्वेषणम् । 'रुधिर् आवरणे' (रु० उ० अ०)। ‘द्विष अप्रीतौ’ (अ० उ० से ० ) । घन् ( ३ ॥ ३ ॥ १८ ) ॥ (२) ॥ * ॥ (३) ॥ * ॥ त्रीणि 'वैरस्य' || मन्युशोकौ तु शुक् स्त्रियाम् । मन्विति ॥ 'मन ज्ञाने' ( दि० अ० अ० ) । 'मनिज- निदसिभ्यो युः' (उ० ३।२०) 'मन्युदैन्ये ऋतौ ऋषि' इति ह्रैमः ॥ (१) ॥*॥ ‘शुच शोके' (भ्वा०प० से ० ) । घञ् (३|३|१८ ) || ( २ ) ॥ ॥ संपदादित्वात् किप् ( वा० ३।३। १०८) ॥ (३) ॥ *॥ त्रीणि 'शोकस्य' || [ प्रथमं काण्डम् पञ्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥ पश्चादिति ॥ पश्चात्तपनम् । अनुतपनम् । 'तप संतापे' (भ्वा०प० अ०) घञ् (३१३११८) ॥ (१) ॥*॥ (२) ॥*॥ वितिप्रसरणम् | ‘स गतौ ' ( भ्वा०प० अ०) घन् ( ३ | ३|१८) । 'उपसर्गस्य घनि' (६|३|१२२) इति वा दीर्घः । 'विप्रती- सार उद्दिष्टः कौकृत्येऽनुशये रुषि' इति मेदिनी ॥ * ॥ (पक्षे हस्वतृतीयोऽपि । 'विप्रतिसारैस्त्वनुशंये रुषि । कौकृत्ये ' इति हैमः ) ॥ (३) | || त्रीणि 'किंचित्कृत्वा पश्चात्ता- पस्य' || १ - दैन्ये यथा – 'तीत्राभिषङ्गप्रभवेण मन्युना' । क्रोधे यथा- 'मन्युना तेन मन्येऽहं बने वसति केसरी' इत्यनेकार्थकैरवाकरकौमुदी ॥ कोपक्रोधामेषरोषप्रतिघा रुकुधौ स्त्रियौ । कोपेति । 'कुपोधे' ( दि० प० सें० ) । 'कु कोपे' ( दि० प० अ० ) घञ् (३॥३॥१८) भावे ॥ (१) ॥ ॥ (२) ॥ ॥ ‘मृषं तितिक्षायाम् ' ( दि० उ० से ० ) | धञ् ( ३।३।१८) । नसमासः (२।२६ ) || ( ३ ) | || 'रुष हिंसायाम्' ( भ्वा० प० से ० ) । घञ् (३१३१८ ) | ( ४ ) || प्रतिहननम् | 'अन्यत्रापि ' ( वा० ३२१४८ ) इति डे न्यङ्कादित्वात् (७१ (३।५३) कुत्वम् । 'प्रतिघौ रुदप्रतीघातौ' इति हैमः ॥ * ॥ रुदधौ संपदादी ( वा० ३।३।१०८ ) ॥ ॥ टापि (भागुरि- मतेन) 'क्रोधो भामः कुधा रुषा' इति शब्दार्णवः ॥ (६) ॥ * ॥ (७) ॥ ॥ ( 'भामः क्रोधे रखौ दीप्तौ’ ) ॥ सप्त 'कोपस्य' || शुचौ तु चरिते शीलम् (७११९७४) ॥ ॥ ‘शील समाधाने’ (भ्वा० प० से०)।ण्यन्तात् शुचाविति || 'शुचौ' इति भाषितपुंस्कत्वात्पुंबद्भावः (३।१।२६) ॥ घञ् (३|३|१८ ) | यद्वा 'शीङो धुक्लुक्वल ज्वलनः' (उ० ८१३८) इति लक् । अर्धर्चादिः (२।४।३१) । 'शीलं खभावे सद्वृत्ते' इति विश्वः । चरित्रमात्रेऽपि शीलम् | 'निष्ठा च शीलं चारित्रं चरित्रं चरितं तथा' इति रत्नको- षात् ॥ (१) ॥॥ एकम् 'सुखभावस्य' || उन्मादश्चित्तविभ्रमः ॥ २६ ॥ उन्माद इति ॥ उन्मदनम् 'मदी हर्षे' (दि०प० से ० )। घञ् (३।३।१८) ॥ (१) ॥ ॥ चित्तस्य विभ्रमोऽनवस्थानम् ॥ ( २ ) ॥ * ॥ द्वे 'चित्तविभ्रमस्य' || प्रेमा ना प्रियता हार्द प्रेम स्नेहः प्रेमेति ॥ प्रीणाति प्रियः । 'प्रीञ् तर्पणे' ( क्या० उ० से ० ) 'इगुपध-' (३।१।१३५ ) इति कः । तस्य भावः । पू १ - 'प्रापि चेतसि सविप्रतिसारे' इति माघः ॥ २-अमर्षो हस्वादिः । 'किमप्यमर्षोऽनुनये भृशायते' इति भारविः । 'वधूरमर्षात्' इति माघः । 'अन्येषामपि (६|३|१३७) इति दीर्घत्वे 'दीर्घादिर पि'- इति हट्टचन्द्रः । 'निरुद्योगं निरामर्षं निर्वीर्यमरिनन्दनम्' इति विशाखः इति मुकुटबुधमनोहरे ॥