पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाट्यवर्ग: ७ ] कालस्य क्रियया आवापनिष्क्रमादिकया मानं परिच्छेदनम् ॥ * ॥ एकम् 'तालस्य' ॥ व्याख्या सुधाख्यव्याख्यासमेतः । लयः साम्यम् लय इति ॥ गीतवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लयः । लयनम् । ‘लीङ् श्लेषणे' ( दि० आ० अ० ) । ‘एरच्' ( ३।३।५६ ) | यत्तु – 'लय गतौ' 'एरच्—' इति मुकुटेनोक्तम् । तन्न । लयधातोरिकारान्तत्वाभावात् । 'लय स्तूर्यत्रयीसाम्ये संश्लेषण विलासयोः' इति हैमः ॥ ( १ ) ॥ * ॥ एकम् 'गानतन्त्रीलयस्य' ॥ अथास्त्रियाम् ॥ ९ ॥ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । अथेति ॥ अस्त्रियां ताण्डवम्, इत्यन्वयः | तण्डुना प्रोक्तं ताण्डवम् । 'तेन प्रोक्तम्' ( ४ | ३|१०१ ) इत्यण् | 'ताण्डवं तृणभिन्नाट्यमेदयोः’ इति हैममेदिन्यौ ॥ ( १ ) ॥ * ॥ 'नट अवस्कन्दने' (भ्वा० प० से ० ) | ल्युट् ( ३।३।११५ ) ॥ (२) ॥*॥ नटस्य कर्म | घ्यञ् (५॥१॥१२४ ) | नटेर्ण्यत् ( ३| १॥ १२४) वा । 'नाट्यं तौर्यत्रिके लास्ये' ॥ (३) ॥ ॥ 'लस श्लेषणक्रीडनयोः' ( भ्वा०प० से० ) | ण्यत् ( ३ ॥१॥ १२४)। ‘लास्यं तौर्यत्रिके मतम् । नृत्ये च ' इति विश्वः ॥ (४) ॥ * ॥ नृती ( दि० प० से ० ) । 'ऋदुपधाच' ( ३|१| ११० ) इति क्यप् ॥ (५) ॥ भावे के (३।३।११४) 'नृत्तम्' अपि ॥*॥ ल्युटि ( ३/३/११५ ) नर्तनम् ॥ (६) ॥ * ॥ 'नृत्यं स्यात्सततेऽपि च' । 'शाश्वते त्रिषु' । षट् 'नृत्यस्य' | तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥ तौर्येति ॥ नृत्यगीतवाद्यं तौर्यत्रिकम् | 'तुरि त्वरायाम्' ( जु॰ प॰ से॰ ) । ‘ऋहलोर्ण्यत्' ( ३११११२४ ) गुर्ण बा- धित्वा बाहुलकात् 'हलि च' (८१२१७७ ) इति दीर्घः । तू मुरजादिः । तत्र भवं तौर्य शब्दः । त्रयोंऽशा यस्य त्रिकम् । 'संख्याया अतिशदन्तायाः कन्' (५|१|२२ ) | 'संख्यायाः संज्ञासङ्घ - (५१/५८ ) इति वा । 'तीर्योपलक्षितं त्रिकम्' इति विग्रहः ॥ (१) ॥ * ॥ इदमेव नृत्यादित्रयं नाट्यमपि । नटस्येदम् । 'छन्दोगौक्थिक - ( ४ | ३ | १२९ ) इति व्यः ॥ (२) ॥ ॥ द्वे 'नाट्यस्य' ॥ १ - विलासे यथा 'किसल्यैः सलयैरिव पाणिभिः' इत्यनेकार्थकैर- बाकर कौमुदी । अत्र तु 'विनाशयोः' इति पाठ उपलभ्यते । २-मेदि. न्यां ‘नित्यम्' इत्येवोपलभ्यते । इत्थं तु नैवोपलभ्यते । नृत्यस्यैतदर्थक स्वासंभवादिदं प्रकृतोपयोगी न इति ॥ ३ - इदं च मुकुटानुरोघेन । दिवादिगणस्थदीर्घोपानीकारे तु नागतिकगतिकरुपमा ॥ भ्रकुंसश्च भुकुंसश्च भ्रूकुंसश्चेति नर्तकः । स्त्रीवेषधारी पुरुषः भ्रकुंस इति ॥ यः पुरुषः स्त्रीवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । 'पटपुट-' इति दण्डकोक्त 'कुसि' धातो- क्षुरादिण्यन्तात् ' एरच्' ( ३१३१५६ ) | ध्रुवोध्रुवा वा कुंसो भाषणमस्य । ध्रुवा कुंसयति वा । अच् ( ३।१।१३४ ) | 'इको ह्रस्वोऽडयो गालवस्य' ( ६|३|६१ ) इति सूत्रे 'इय- दुवभाविनां न ' ( वा० ) इति निषेधोत्तरं पठितस्य 'अभ्रु- कुंसादीनाम्' इति वार्तिकस्य हस्खनिषेधपर्युदासपरतया, अका- रादेशपरतया च व्याख्यानद्वयाद्रूपत्रयम् । पृपोदरादित्वात् ( ६ | ३ | १०९ ) ऋवर्णवानपि । 'भ्रकुंसव 'ध्रुकुंसश्च श्रृपुंसव भृकुंसवत्' इति शब्दार्णवः ॥ (३) ॥ ॥ श्रीणि 'स्त्रीवेष- धारिणो नृत्यस्य' ॥ नाट्योक्ती नाट्योक्ताविति ॥ 'नाट्योक्तों' इत्यधिकारः प्रागहा- रातू ॥ गणिकाजुका ॥ ११ ॥ गणिकेति ॥ गणिका अजुका ज्ञेया । 'गणिका यूथि वैश्येभीतर्कारीषु ना तु दैवज्ञे' ॥ ॥ 'अर्ज अर्जने' (भ्वा० प० से ० ) । 'समिकसे:--' (+) इति बाहुलकादुकन, रस्य जः ॥ (१) ॥॥ एकम् 'अञ्जुकायाः' ॥ भगिनीपतिरावुत्तः भगिनीति ॥ आपनमाप् | संपदादिविप् ( ३१३११८४ ) आपमुत्तनोति । 'अन्येभ्योऽपि ' ( वा० ३।२।१०१ ) | इति डः | आवृत्तः ॥ (१) ॥*॥ भगिन्याः पतिः | एकम् 'भगि- नीपतेः ॥ भावो विद्वान् भाव इति ॥ भावयति परिभावयति । पचायच् ॥ (३॥ १।१३४) । 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु । रत्यादौ च ॥ (१) ॥ * ॥ एकम् 'विदुषः' ॥ अथावुकः । जनक: अथेति ॥ अवति । 'अव रक्षणे' ( भ्वा० प० से ० ) । बाहुलाकण् । णित्वादुपधावृद्धि: ( ७/२|११६ ) ॥ (१) ॥ * ॥ 'जनकः पितृभूपयोः' । एकम् 'जनकस्य ॥ युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥ युवराज इति ॥ युवा चासौ राजा च । 'राजा - ' ( ५० ४९१ ) इति टच् ॥*॥ कुमारयति । 'कुमार कीडायाम्' चु० उ० से० ) | अच् ( ३ | १ | १३४ ) । 'कुमारोऽश्वानुचा- रके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे ॥ कुमारं जाय- कनके कुमारी त्वपराजिता । नदीभिद्रामतरुणी कन्यका