पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीमदमरसिंहविरचितः अमरकोषः । व्याख्यासुधाख्यया व्याख्यया समेतः । प्रथमं काण्डम् | अथवा स दयावत्त्वमुक्तम् । 'दयालोरसमर्थस्य दुःखायैव दयालुता इत्यतो ज्ञानवत्त्वमुक्तम् । कीदृशस्य – अगाधस्य । न गाधस्त- लस्पर्शो यस्य गम्भीरस्य | विषयानाकृष्टस्येति यावत् । यद्वा अगं शैलं वृक्षं वा आप्नोति । 'अन्येभ्योऽपि दृश्यते' ( वा ० ३।२।१०१ ) इति आप्नोतेः (आप व्याप्तौ । खा०प० अ० ) डः | टिलोपः (६।४।१४३ ) | सवर्णदीर्घः ( ६।१।१०१ ) तमगं दधाति मनसेत्यगाधः । तस्य । परमेश्वरभक्तस्येति यावत् । कीदृशो धीराः - अक्षयः । अः वासुदेवः तस्मिन् क्षयो ज्ञानं निवासो वास्य सोऽक्षयः । अनेन ब्रह्मनिष्ठतारूपं द्वितीयं विशेषणमुक्तम् । यद्वा न क्षयो हिंसा यस्य । 'क्षीष् हिंसायाम्' (त्र्या० प० अ० ) 'एरच् ( ३|३|५६ ) | पूर्वत्र तु 'क्षि निवासगयोः' ( तु०प० अ० ) । परपीडापहा- रकः । 'यस्मान्नोद्विजते लोकः' इति गीता । धीराः मया सेव्यताम् । स कः । यस्य गुणा अनघाः । न अघं येभ्यस्तेऽनघाः । पापनिवर्तका इति यावत् । 'यशः कलि- मलापहम्' इति भागवतात् । शेषं समानम् । आशिषि लिङ्लोटौ ( ३|३|१७३ ) इति कर्मणि लोट् । इत्थं हि गुरु- सेवापरान् प्रति कर्तव्यत्वेनोपदिश्यते स्वयं वा प्रार्थ्यते । गुरुसेवामाहात्म्यं च ब्रह्मवैवर्तादौ प्रसिद्धम् । भागवतेऽपि→ | 'यथाऽहं ज्ञानदो गुरुः' इति, 'तुष्येयं सर्वभूतात्मा गुरुशुश्रू- षया यथा' इति च । एवं 'लक्ष्मीवान्, कल्याण ( निर्मल ) - गुणः, शास्त्रसंपन्नो, दयापूर्णो, विषयानाकृष्टो, विष्णुभक्तो, विष्णुसाक्षात्कारवान्, ज्ञानदो गुरुः संपत्प्रात्यर्थ मोक्षप्रा त्यर्थ च निष्पापैरधिकारिभिः, मया वा सेव्यताम्' इति परेभ्यो हितमुपदिशन् स्वहितमाशंसमानो वा ग्रन्थकृदाशीर्वादल- क्षणम् ( इति ) लक्ष्मीस्मरणलक्षणं च मङ्गलमाचचार । यत्तु मुकुट: -'स्खेष्टदेवतासंकीर्तनाद्विशिष्टमुत्पिपादयिषुः' इत्य वोचत् । तन्न | देवतावाचकपदस्यात्रादर्शनात्, आशी- लोटो दर्शनाच्च । स्वामी तु– 'जिनमनुस्मृत्य' इति स्मरण- लक्षणं मङ्गलमाह । तन | जिनवाचकपदस्यात्रा दर्शनात, बल्लवीवल्लभं नत्वा गुरुं(गिरं) भट्टोजिदीक्षितम् । आ(अ)मरे विदधे व्याख्यां मुनित्रयमतानुगाम् ॥ प्रारिप्सितप्रत्यूहापनुत्तये कृतं मङ्गलं शिष्यशिक्षार्थमादौ निबबन्ध - यस्थ ज्ञानदयासिन्धोरगाधस्यानघा गुणाः । सेन्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १ ॥ यस्येति ॥ हे अनघाः भवद्भिः स धीराः सेव्यताम् । न अघं गपं येषां तेऽनघा निष्पापाः । सुकृतिन इति यावत् । सुकृतिन एव तं सेवितुं प्रभवन्तीति त एव संबोध्यन्ते । 'धर्मेण पापमपनुदा' इति श्रुतेः । घियं राति ददाति । 'रा दाने' ( अ० पं० अ० ) अस्मात् 'क्किप् च ' ( ३|२|७६ ) इति क्विप् । धीरा ज्ञानप्रदो गुरुः । अनेन 'तद्विज्ञानार्थं स गुरुमे- वाभिगच्छेत्' इति श्रुत्यर्थ उपदिष्टः । 'प्रयोजनमनुद्दिश्य न मन्दोsपि प्रवर्तते' इति गुरुसेवायाः फलमाह - श्रिये चामृ ताय चेति । चद्वयमुभयोः प्राधान्यद्योतनाय | भुक्तिमुक्ति तिरुवातो भवति । 'क्रियार्थोपपदस्य - ' ( २ | ३ | १४ ) इति चतुर्थी । तादर्थ्ये ( वा० २१३ | १३ ) वा । तदुक्तं भाग- वते—‘योगर्द्धिमापुरुभयीं यदुहैहयाद्याः' इति । ननु गुरोः श्रियोऽभावात्ततः कथं सा प्रार्थ्य ( प्य ) त इत्याशयाह- यस्येति । अस्य गुरोरी लक्ष्मीरस्ति गुणाश्च सन्ति । तदुक्तं भागवते—'ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्धृ- दया यतोऽजित' इति । 'सत्यं शौचं दया क्षान्तिस्त्यागः संतोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ ज्ञानं विरक्तिरैश्वर्य शौर्य तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्वैर्य मार्दवमेव च ॥ इत्यादयो गुणाः । कीदृशस्यास्य - ज्ञानदयासिन्धोः । ज्ञायतेऽनेनेति ज्ञानं शास्त्रम्, दया निष्का- रणपरदुःखप्रहाणेच्छा, तयोः सिन्धोरिव । शास्त्रसंपन्नस्य, दयापूर्णस्य च । अनेन ‘श्रोत्रियं ब्रह्मनिष्ठम्' इति विशेषणयो- र्मध्ये श्रोत्रियत्वमुक्तम् । स ज्ञानवानपि किमर्थं दास्यतीत्यतो