पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । (५।२१४८) इति डट् । ‘नान्तात् - ' ( ५१२४९ ) इति मद् । समन्वितलयस्त्वेकताल: 'पञ्चमो रागभेदे स्यात्स्वरभेदे च पञ्चमी । पाण्डवानां च पत्न्यां स्त्री पञ्चानां पूरणे त्रिषु' | ‘पञ्चमो रुचिरे दक्षे' ॥ (१) ॥*॥ अमी सप्त स्वरास्तन्त्रीतः कण्ठाच्चोच्चरन्ति । 'दारवी गात्रवीणा च द्वे वीणे खरधारिके' इति वचनात् वंशमुर जादयस्तु अनुकरणमात्रोपयोगिन इति भावः । नारदः - 'षड्ज रौति मयूरस्तु गावो नर्दन्ति चर्षभम् । अजाविको च गान्धार क्रौञ्चो नदति मध्यमम् ॥ पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति निषादं रौति कुअरः' इति 'स्वराणां पृथक्पृथकू' एकैकम् ॥ काकली तु कले सूक्ष्मे तु काकलीति ॥ ईषत्कलः काकली | 'ईषदर्थे च ' ( ६ | ३।१०५ ) इति कोः कादेशः । गौरादित्वात् (४|१॥४१ ) ङीष् । अन्ये तु — कले: ( भ्वा० आ० से ० ) इन् ( उ० ४|११८ ) | कलिः शब्द ईषदत्रेति काकलिः । ततः - दिकारात्-’ ( ग० ४।१।४५ ) इति ङीष् । अत एव 'साधू- दितं काकलिभिः कुलीनैः' इत्यभिनन्दप्रयोगः संगच्छते- इत्याहुः ॥ (१) ॥ ॥ एकम् 'सूक्ष्मध्वनेः' || ध्वनौ तु मधुरास्फुटे । ७२ कलः ध्वनाविति ॥ मधुरः श्रुतिसुखः । स चासावस्फुढो Sव्यक्ताक्षरच | तादृशे ध्वनौ कलः । 'कड मदे' (भ्वा० १० से० ) । कडति माद्यत्यनेन । 'हलच' ( ३|३|१२१ ) इति घञ् । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । डलयोरेकत्वस्मरणम् । यद्वा कलनम् । ‘कल संख्याने' (भ्वा० आ० से ० ) | ‘खनो घ च’ ( ३।३।१२५ ) इति घः । यद्वा कलते । पचाद्यच् ( ३।१।१३४ ) | 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालमानयोः ॥ कलं शुके त्रि- ध्वजीर्णे नाव्यक्तमधुरध्वनौ ॥ ( १ ) ॥ * ॥ एकम् 'अव्यक्त- मधुरध्वनेः' ॥ . मन्द्र॑स्तु गम्भीरे मन्द्र इति ॥ गम्भीरे मेघादिध्वनौ । मन्दते । 'मदि स्तुत्यादौ ' ( भ्वा० अ० से ० ) 'स्फा यि - ' ( उ० २ | १३ ) इति रक् ॥ (१) ॥॥ एकम् 'गम्भीरशब्दस्य' || तारोऽत्युच्चैः तार इति ॥ तारयति अतिक्रामत्यन्याञ्शब्दान् । 'बहु लमेतन्निदर्शनम्' इति चुरादिगणसूत्रात्स्वार्थे णिच् । पचा- द्यच् (३।१।१३४) ॥ (१) ॥ * ॥ एकम् 'उच्चशब्दस्य' ॥ त्रयस्त्रिषु ॥ २ ॥ त्रय इति ॥ त्रयः कलमन्द्रताराः (त्रिषु विशेष्यनिघ्नाः) ॥ १- मद्रोऽपि इति स्वामी ॥ [ प्रथमं काण्डम् समन्वितेति ॥ सभ्यगन्वितो लयो नृत्यगीतवाद्यानां साम्यं यत्र स एकः समस्तालो मानमस्येत्येकतालः ॥ ( १ ) ॥॥ एकम् 'गीतवाद्यलयसाम्यस्य' || वीणा तु वल्लकी । विपञ्ची वीणेति ॥ वेति जायते स्वरोऽस्याम् । 'वी गल्यादिषु' ( अ० प० अ० ) 'रास्त्रासाला- ( उ० ३।१५ ) इत्यादिना नप्रत्ययो णत्वं गुणाभावश्च निपातितः । 'वीणा विद्युति वल्लक्याम् ॥ (१) ॥*॥ वल्लते | 'वल वल्ल संवरणे' ( भ्वा० आ० से ० ) कुन् ( उ० २१३२ ) | गौरादित्वात् (४॥ १॥४२ ) ङीष् ॥ (२) ॥॥ विपश्चयति विस्तारयति शब्दम् । “पचि विस्तारे' ( चु०प० से ० ) | ण्यन्तादच् ( ३ | १ | १३४)। गौ- रादिः (४|१४१ ) । 'विपञ्ची केलिवीणयोः' ॥ (३) ॥ * ॥ त्रीणि 'वीणायाः' ॥ सेति ॥ सातु तन्त्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥ सप्तभिस्तन्त्री भिरुपलक्षिता परिवदति स्व- रान् । 'सुपि' ( ३।२।७८ ) इति णिनिः ॥ ( १ ) ॥ ॥ एकम् 'सतार इति ख्यातस्य' ॥ ततं वीणादिकं वाद्यम् आदिना ततमिति ॥ वीणादि यद्वाद्यं वादनीयम् तत्ततम् । सैरन्ध्रीरावणहस्त किंनरादि तन्यते 'तनिमृद्भ्यां किञ्च' ( उ० ३१८८ ) इति तन् । 'अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकस् । क्लीचं वीणादिवाये स्यात्पुंलिङ्गस्तु सदागतौ ॥ (१) ॥ ॥ एकम् 'वीणादिवाद्यस्य' || आन मुरजादिकम् । आनद्धमिति ॥ आनह्यते स्म मुखे चर्मणा बध्यते स्म । 'गह बन्धने' ( दि० उ० अ० ) । क्तः ( ३ | २ | १०२ ) | 'नहो घः' ( ८।२।३४ ) | आदिपदात्परहादि । 'आनद्धं मुरजादौ च क्लीवं स्यात्संदिते त्रिषु' ॥ (१) ॥ * ॥ एकम् 'मुरजादि- वाद्यस्य' ॥ वंशादिकं तु शुषिरम् वंशेति ॥ वंशो वेणुः । आदिपदात्काहलादि । शुषि- छिद्रमस्यास्ति । 'ऊषशुषि-' (५|२|१०७ ) इति रः । 'शु- विरं वंशादिवाद्ये विवरेऽपि नपुंसकम् । शुषिरो न स्त्रियां गर्ते, वहौ, रन्ध्रान्विते त्रिषु' | 'सूर्म्य सुषिरामिव' ( पस्पशा- हिक भाष्यस्थतौ) इति प्रयोगात् ( सुषिरम् ) दन्त्याद्यपि । १ - कचिन्मेदिनीपुस्तके तु 'मूषिके ना स्त्रियां नाल्पौषधी ग्भ्रा- न्विते त्रिषु' इति पाठ उपलभ्यते ॥