पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाट्यवर्गः ७] भेदे च शुष्कपर्णध्वनौ तथा । पुंसि स्त्रियां पुनः प्रोक्ता मर्मरी पीतदारुणि' ॥ (१) ॥ ॥ एकं 'वस्त्रपर्णध्वनेः' || भूषणानां च शिक्षितम् । निक्काणो निक्कणः काणः क्वणः कणनमित्यपि ॥ २४ ॥ भूषणानामिति ॥ भूषणानां ध्वनौ । 'शिजि अव्यक्त शब्दे' (अ० आ० से ० ) तालव्यादिः । भावे तः ( ३॥ ३॥ ११४) ॥*॥ ‘गुरोश्च’ ( ३।३।१०३ ) इत्यप्रलये 'शिक्षा' अपि - इति स्वामी ॥ (१) || 'नौ' ( ३३१६४) इति 'अनुपसर्गे' ( ३।३।६१ ) इति चानुवर्तमाने 'क्वणो वी- णायां च' ( ३।३।६५ ) इत्यप् ॥ ( ३ ) ॥ * ॥ ( ५ ) ॥ * ॥ पक्षे घञ्] ( ३|३|१८ ) ॥ (२) ॥ * ॥ (४) ल्युट् ( ३॥३॥ ११५) ॥ (६) ॥ ॥ ( यत्तु ) पञ्च वीणाया अन्यस्य च किंनरादे: कणने- इति मुकुटः । तन्न ।अपिशब्देन पूर्वान्वयस्य बोधनात् । अतः षंडपि 'भूषणध्वनेः' ॥ वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्कणादयः । व्याख्यासुधाख्यव्याख्या समेतः । वीणाया इति ॥ प्रादेरिति । उपसर्गात् । 'वीणायां च’ ( ३।३।६५) इत्यंशेन सोपसर्गादपि विधानात् । आदि- शब्दादुपक्कणादयः ॥ || 'वीणाक्कणनस्य' इमे ॥ कोलाहलः कलकलः कोलाहल इति ॥ 'कुल संस्त्याने' ( भ्वा० प ० से ० ) । कोलनम् । कोल एकीभावः । तमाहलति । 'हल विलेखने' ( भ्वा० प० से ० ) | अच् ( ३ | ३ | १३४ ) कः ( ३ |२|३) वा ॥ ( १ ) ॥॥ 'कल शब्दे' ( भ्वा० आ० से ० ) | घञ् ( ३ | ३ | १८) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । कलादपि कलः । ( यत्तु ) कोलान्सूकरानाहते त्रासयति इति स्वाम्याह । तन्न । 'आबो यमहनः' ( १|३|२८) इत्यकर्म कात्स्वाङ्गकर्मकाञ्च हन्तेरात्म- नेपदविधानात् । यदपि - आभीक्ष्ण्ये द्विर्भावः ( ८1१४ ) इति । तदपि न तस्य तिङव्ययकृन्मात्र विषयत्वात् । 'कलकल उक्तः कोलाहले तथा सर्जनिर्यासे' ॥ (२) ॥ ॥ द्वे 'बहुभिः कृतस्य महाध्वनेः' ॥ तिरश्रां वाशितं रुतम् ॥ २५ ॥ तिरश्चामिति ॥ तिरोऽञ्चन्ति ते तिर्यश्चः । तेषां यदु- तम् तद्वाशितम् । ‘वाट शब्दे' (दि० आ० से ० ) ताल. ब्यान्तः । भावे क्तः ( ३।३।११४ ) । 'वाशितां करिणी- नार्योर्वाशितं भाविते रुते' । ('वासिता करिणीनार्यो- १-~पीयूषविवेकयोरपि ‘शिञ्जितम्' इत्येकं भूषणध्वनेः । निक्काणा- दयः पञ्च वीणाकिंनरादिस्वनितस्य । इत्येव दृश्यते । अग्निपुराणान्तर्ग- तनामलिङ्गानुशासने 'भूषणानां च शिञ्जितम् । वीणाया निकणः काणः' • इति पाठस्यैव दर्शनेनापि निक्काणादीनां भूषणध्वनिवाचकत्वाप्राप्तेः ॥ · २ - अयं च लोकक्रमो मेदिनीस्थः । परंतु तत्रापि दन्त्यमध्य एवो. पलभ्यते ॥ र्वासितं सुरभीकृतें । ज्ञानमात्रे खगारावे वासितं वस्त्रवे- ष्टिते') इति विश्वकोषादि दर्शनेन तु दन्त्यवानपि ॥ (१) ॥॥ एकम् 'पक्षिशब्दस्य' ॥ स्त्री प्रतिश्रुत्प्रतिध्वाने स्त्रीति || 'श्रु श्रवणे' ( भ्वा०प० से ० ) । संपदादि- त्वात् (वा० ३१३११०८) कि । प्रति प्रथमशब्दं लक्ष्य- कृत्य श्रूयते प्रतिश्रुत् ॥ (१)॥*॥(२)॥*॥ द्वे ‘प्रतिध्वनैः’ ॥ गीतं गानमिमे समे । गीतमिति ॥ गीयते । भावे कः ( ३ | ३|११४ ) ल्युटौ (३।३।११५ ) | 'गीतं शब्दितगानयोः' इति हैमः ॥ ( १ ) ॥ ॥ (२) ॥ * ॥ द्वे 'गानस्य' || इति शब्दादिवर्गविवरणम् ॥ ६ ॥ निषादर्षभगान्धारषड्जमध्यम धैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥ १ ॥ निषादेति ॥ निषीदति मनोऽस्मिन् । 'षद्ल विशर णगत्यवसादनेषु' (भ्वा०, तु० प० अ० ) । 'हलच' ( ३ ॥३॥ १२१ ) इति घञ् । 'सदिरप्रतेः' (८३१६६ ) इति षत्वम् । 'निषादः स्वरभेदेऽपि चण्डाले धीवरान्तरे' 11 (9) ॥॥ ऋषति बलीवर्दखर सादृश्यं गच्छति । 'ऋषी गतौ' ( तु० प० से ० ) । 'ऋषिवृषिभ्यां कित्' ( उणा० ३११२३ ) इत्यभच् । 'ऋषभस्त्वौषधान्तरे । स्वरभिट्टषयोः कर्णर ध्रकुम्भीरपुच्छयोः ॥ उत्तरस्थः स्मृतः श्रेष्ठे स्त्री नराकारयो- षिति | शूकशिम्ब्यां सिरालायां विधवायां क्वचिन्मता' ('आ- दिजिनेऽपि ॥ (१) ॥ * ॥ गन्धारदेशे भवः | अण् ( ४ | ३ | ५३ ) । 'गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे' इति हैमः ॥ ( १ ) ॥ ॥ षड्भ्यो जातः । 'पञ्च॑म्याम्-' ( ३|२| ९८ ) इति डः । 'नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संस्पृ शन् । षड्भ्यः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः ॥ (१) ॥ ॥ मध्ये भवः । 'मध्यमः' (४१३१८ ) । 'तद्वदे- वोत्थितो वायुरुरः कण्ठसमाहतः । नाभिं प्राप्तो महानादो मध्यस्थस्तेन मध्यमः' । 'मध्यमो मध्यजे खरे | देहमध्ये मध्यदेशे (मध्यमा कर्णिकाङ्गुलिः | राकारजस्खला चापि)' इति हैमः । 'मध्यमो मध्यजेऽन्यवत् । पुमान्खरे मध्यदे- शेऽप्यवलने तु न स्त्रियाम् ॥ स्त्रियां दृष्टरजोनार्या कर्णिका- इलिमेदयोः | यक्षरच्छन्दसि तथा ' || ( १ ) ॥ ॥ धी मतामयं चैवतः पृषोदरादिः (६१३/१०९) 'संज्ञायाम्' ( ८/२०११ ) इति वा वत्वम् ॥ (१) ॥ ॥ 'वायुः समुद्रतो नाभेरुरोहत्कण्ठमूर्धसु । विचरन्पञ्चमस्थान प्राध्या पञ्चम उच्च- ते' | तज्जन्यत्वात्स्वरः पञ्चमः । पञ्चानां पूरणः 'तस्य पूरणे-' १ - राका पूर्णिमा । तत्र यथा 'अमृतममृतराशिमंध्यमामध्यरात्रे' इति ॥ २- अयं पाठः कुत्रचिदुपलभ्यते ॥