पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ६८ ( चु० आ० से० ) । 'गुरोच' (३|३|१०३) इयः ॥ (८) ॥ ॥ ‘णिदि कुत्सायाम्' ( भ्वा० प० से ० ) । 'गुरोच' (३।३।१०३) इत्यः । ‘निन्दा स्यादपवादेऽपि कुत्साया - मपि योषिति’ ॥ (९) ॥*॥ 'गर्ह गल्ह कुत्सायाम्' ( भ्वा० आ० से० ) । ल्युट् (३|३|११५ ) ॥ (१०) ॥ ॥ दश 'निन्दायाः' ॥ पारुष्यमतिवादः स्यात् पारुष्यमित्यादि ॥ परुषो निष्ठुरभाषी | तस्य भावः पारुष्यम् । ब्राह्मणादित्वात् (५|१|१२४) घ्यञ् । 'पारुष्यं परुषत्वे च दुर्वाक्ये पुंसि गीर्पतौ' ॥ (१) ॥ ॥ अतिक्रम्यो- तिरतिवादः ॥ (२) ॥ ॥ द्वे 'अप्रियवचसः' ॥ भर्त्सनं त्वपकारगीः । भर्त्सनमित्यादि ॥ अपकारार्था गीः ॥ (१) ॥*॥ ‘भर्त्स तर्ज संतर्जने’ (चु॰ आ॰ से० ) | ल्युट् (३।३।११५) ( २ ) ॥ ॥ द्वे 'चौरोऽसि घातयिष्यामि त्वाम्' इत्यादि 'अपकारार्थवाक्यस्य' ॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ य इति ॥ उपालम्भो द्वेधा । गुणाविष्करणपूर्वको निन्दा- पूर्वकश्च । आयो यथा 'महाकुलीनस्य तव किमुचितमि दम्' । द्वितीयस्तु 'बन्धकीसुतस्य तवोचितमेवेदम्' इति । तत्र यो द्वितीयः स परिभाषणम् । 'भाष व्यक्तायां वाचि' ( स्वा० आ० से० ) | ल्युट् (३|३|११५) || अप्रत्यये (३|३|१०२) 'परिभाषा' अपि । 'परिभाषाश्च ततो भवि- ध्यन्ति’ इति ‘हेतुमति च’ (३।१।२६) इति सूत्रे भाष्यात् । 'परिभाषणं सनिन्दोपालम्भे नियमेऽपि च ' ( १ ) ॥ * ॥ एकम् 'सनिन्दभाषणस्य' || तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति । तत्रेति || 'क्षर संचलने' (भ्वा०प० से ० ) प्रयोजकण्य न्ता द्युच् (३।३।१०७) । ल्युटि (३।३।११५) 'आक्षारणम्' अपि । क्षरणाक्षारणाकोशा: साभिशापाभिमैथुनाः' ( इति दुर्गः ) । क्लीबमपि । 'नीचैमाक्षारणं यः स आक्रोशो मैथुनं प्रति' इति शब्दार्णवः ॥ (१) ॥ ॥ परस्त्रीनिमित्तं पुंसः, परपुरुषनिमित्तं स्त्रियाच 'आक्रोशनस्य' एकम् ॥ स्यादाभषाणमालापः स्यादिति ॥ आभाषेः (भ्वा० आ० से ० ) ल्युट् ( ३ |३| ११४) ॥ (१) ॥*॥ ‘लप व्यक्तायां वाचि' ( भ्वा०प० से० ) | घञ् (३।३।१८) ॥ (२) ॥ * ॥ 'संभाषणस्य' द्वे ॥ प्रलापोऽनर्थकं वचः ॥ १५ ॥ प्रलाप इति ॥ प्रलपनम् । घन् (३।३।१८) ॥ (१) ॥*|| 'प्रयोजनशून्यस्योन्मत्तादिवचनस्य' एकम् || १–‘नीचम्” इति पुंबिहीनस्य संज्ञा इति मुकुटः ॥ [ प्रथमं काण्डम् अनुलापो मुहुर्भाषा अनुलाप इत्यादि | मुहुः पुनःपुनर्भाषणम् । घज् (३|३|१८) ॥ (१) ॥ ॥ अनुलपनम् । घञ् (३|३|१८) ॥ ( २ ) ॥ * ॥ द्वे 'वारंवारं भाषणस्य' || विलापः परिदेवनम् । विलाप इत्यादि ॥ विलपनम् । घञ् (३|३|१८) ॥ (१) ॥ * ॥ परिदेवनम् । 'दिनु परिदेवने' ( चु० आ० से० ) चुरादि: । ल्युट् ( ३ |३|११५ ) || युचि ( ३३।१०७) 'परिदेवना' अपि ॥ (२) ॥ * ॥ द्वे 'अनुशोचनोक्तेः' ॥ विप्रलापो विरोधोक्तिः विप्रविलाप इत्यादि | विरुद्धः प्रलापः | 'विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि इति हैमः ॥ (१) ॥ ॥ विरो धस्य उक्तिः ॥ (२) ॥*॥ द्वे ‘अन्योन्यविरुद्धवचनस्य' ॥ संलापो भाषणं मिथः ॥ १६ ॥ संलाप इति ॥ संलपनम् | घन् (३|३|१८ ) ॥ ( १ ) ॥॥ मिथोऽन्योन्यं प्रति भाषणम् । आलापस्त्वेकेनापि क्रियते ॥ एकम् 'मिथोभाषणस्य' ॥ सुप्रलापः सुवचनम् सुप्रेत्यादि || सुष्टु प्रकृष्टं लपनम् | घञ्ज् ( ३ |३|१८ ) ॥ (१) ॥ ॥ (२) ॥*॥ द्वे 'शोभनवचनस्य' ॥ अपलापस्तु निह्नवः । अपलाप इति ॥ अपलपनम् । घञ् (३|३|१८) 'अप- लापः प्रेम्ण्यपहवे' ॥ (१) ॥ ॥ निह्नवनम् । ‘ढुङ् अपनयने’ ( अ० आ० अ० ) । 'ऋदोरप्' ( ३|३|५७) । ( 'निह्नवः स्यादविश्वासेऽपलापे निकृतावपि ) ॥ (२) ॥ * ॥ द्वे धार्यमाणे 'न धारयामि' इत्यादि 'निह्नवोक्तेः' ॥ संदेशवाग्वाचिकं स्याद् संदेशेति ॥ संदिश्यते घञ् (३१३११८ ) | संदेशोऽर्थः । तस्य वाक् ॥ (१) ॥ * ॥ संदिष्टोऽर्थो ययोच्यते सा वाचि- कम् । 'वाचो व्याहृतार्थायाम् (५४१३५) इति ठक् ॥ (२) ॥ * ॥ द्वे 'संदेशवचनस्य' || वाग्भेदास्तु त्रिपूत्तरे ॥१७॥ वाग्मेदा इति ॥ उत्तरे वक्ष्यमाणा वाग्मेदा हशत्यादयः सम्यगन्ताः ॥ रुशती वागकल्याणी रुशतीति || 'रुश हिंसायाम्' ( तु०प० अ० ) ताल- ८०) इति नुमो विकल्पः । रुशती हिंस्रा | रुशव् शब्दः । व्यान्तस्तौदादिकः । शत्रन्तान्छीप् । 'आच्छीनयोः' (७॥१५ रुशद्वचनम् । मुकुटस्तु ( उषती इति पाठे ) 'उष दाहे' ( भ्वा० प० से० ) इत्यस्य शत्रन्तस्य 'उषती' इति रूपमाह ।