पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । समाहृतिस्तु संग्रहः ॥ ६ ॥ समेति ॥ समाहरणम् । क्तिन् (३१३३९४ ) ॥ (१) ॥॥ संग्रहणम् | ‘ग्रहबृह-' (३१३१५८) इत्यप् | ‘विस्तरेणो- पदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन सं- ग्रहं तं विदुर्बुधाः । संग्रहो बृहदु मुष्टिसंक्षेपयोरपि' इति मेदिनी' ॥ (२) ॥॥ द्वे 'संग्रहस्य' || समस्या तु समासार्था समेति ॥ समसनम् । ‘असु क्षेपणे' ( दि० प० से ० ) । ण्यत् (३।१।१२४) । संज्ञापूर्वकत्वाद्ध्यभावः । यद्वा समं कृत्स्नम् । तद्विषयिणीच्छा समस्या | तत्प्रयोज्यत्वाच्छच्दोऽपि सा । समशब्दात्स्यचि (३१११८) सर्वप्रातिपदिकेभ्यः' (बा० ७/१॥५१) इति सुगागमे 'अ प्रत्ययात्' (२३|३|१०२) इत्यः टाप् (४११॥४) ॥ (१) ॥ * ॥ समसनं समासः | घम् । (३।३।१८) | समासोऽर्थो यस्याः पूरणसाकाङ्क्षा । कविशक्ति- परीक्षार्थमपूर्णतयैव पठ्यमाना । यथा 'शतचन्द्र नभस्तलम्' इति । तत्र 'दामोदरकराघातविह्वलीकृत चेतसा | दृष्टं चाणूर- मलेन' इत्यादिना सा पूर्यते ॥ ( २ ) ॥ ॥ 'असमासाथ ' इति पाठे तु 'अपरिपूरणार्थी' इत्यर्थः ॥ द्वे 'समस्यायाः ॥ किंवदन्ती जनश्रुतिः । किंवदन्तीति ॥ कोऽपि वादः । किंपूर्वाद्वदेः 'भूतृवहि- वसि’ (उ० ३।१२८) इति झच् । 'झोऽन्तः' (७ | १|३) 'गौरा- दिलात्' (४|१९४१) ङीष् । यद्वा 'किंवदन्ति' इत्याख्याय- माना । अनुकरणशब्दादाख्यातण्यन्तात् (वा० ३|१|२६) एकम् 'बहुकर्तृकाह्वानस्य' ॥ ‘अच इः’ (उ० ४।१३९)। ‘कृदिकारात्- ' (ग० ४११९४५) विवादो व्यवहारः स्यात् इति ङीष् ॥ (१) ॥॥ जनेभ्यः श्रूयते । क्तिनू (३।३।९४) ॥ (२) ॥ ॥ द्वे 'लोकप्रवादस्य' || [ प्रथमं काण्डम् अथाह्वयः ॥ ७ ॥ आख्याह्ने अभिधानं च नामधेयं च नाम च । । अथेति ॥ आह्वयन्त्याह्वाः । 'आतचोपसर्गे' (३|१|१३६) इति के प्राप्ते 'प्रसारणिभ्यो डो वक्तव्यः' (वा० ३।२।३) इति डः । तैर्यायते प्राप्यते । ' या प्रापणे' (अ० प० अ० ) | घज कः (वा० ३१ ३२५८ ) | 'अन्यत्रापि ' ( वा० ३२४८ ) इति डो वा । यद्वा आह्वानमाहूः | संपदादिः ( वा० ३।३।१०८ ) तस्या अयः ॥ (१) ॥ * ॥ आख्यानम् | 'आतश्चोपसर्गे' ( ३ | ३ | १०६) इयङ् ॥ (२) ॥ ॥ एवमाहा ॥ (३) ॥ ॥ नाते । 'न अभ्यासे' (भ्वा०प० से ० ) । यद्वा अभिधीयते । कर्मणि युद्ध (३|३|११३) | (४) 'नामन्सीमन् -' (उ० ४/१५१) इति निपातितः । ‘भागरूप- ऽभिधीयतेऽर्थोऽनेन | ‘णम प्रहृत्वे शब्दे च' (भ्वा०प० नामभ्यो धेयः' (वा० ५१४१३५) इति स्वार्थे वा धेयः ॥ ( ५ ) ॥*॥ (६) ॥*॥ षट् ‘नाम्नः ॥ हूतिराकारणाह्वानम् नम्यते- ॥ ॥ अ० ) | १- हैमे तु संग्रहो बृहदुद्धारे ग्रहसंक्षेपयोरपि इत्युपलभ्यते । संचयेऽपीति महः - इत्यनेकार्थकैरवाकरकौमुदी ॥ २-हैमे तु 'प्रवृत्तिवृत्तौ वार्तायां प्रवाहे' इत्युपलभ्यते । हूतिरिति ॥ ह्वानम् । हेजः ( भ्वा० उ० अ० ) । क्तिन् (३३९४) ॥ (१) ॥ ॥ आकारणम् | कृनो ण्यन्तात् (३|१|२६) युच् (३।३।१०७) | (२) ॥ ॥ (हेञः) ल्युटि (३।३।११५) अह्वानम् ॥ (३) ॥ ॥ त्रीणि 'आह्वानस्य' ॥ संहूतिर्बहुभिः कृता ॥ ८ ॥ संहूतिरिति ॥ बहुकर्तृका हूतिश्चेत् संहूतिः ॥ (१) ॥ ॥ विवाद इति ॥ विरुद्धो वादः ॥ ( १ ) ॥ ॥ 'विना- नार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहरणाद्वयवहार इति स्मृतः' इति कात्यायन: । 'व्यवहारः स्थितौ पणे । वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात् वार्तेति ॥ वृत्तिर्लोकवृत्तम् । तदस्त्यस्याम् । ‘वृत्तेश्च’ | इभेदे” इति हैमः ॥ (२) ॥ ॥ द्वे 'ऋणादिन्यायस्य' ॥ ( वा० ५/२/१०१) इति वार्तिकेन णः । यत्तु – 'प्रज्ञाश्रद्धा-' (५/२/१०१ ) इत्यादिना णः- इति मुकुटेनोक्तम् । तन्न । 'तत्र वृत्तिशब्द पाठोप्रामाणिकः' इत्युक्तवार्तिकेनैव ज्ञापित- . त्वात् । 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निः- सारारोग्ययोः क्लीबम् ॥ (१) ॥ ॥ प्रवर्तते व्याप्नोति वृत्तेः ( भ्वा० आ० से.) तिच् (३ | ३ | १७४) | ‘प्रवृत्तिर्वृत्तवृत्ता- न्तप्रवाहेषु प्रवर्तने’ इति हैमैः ॥ (२) ॥ * ॥ वृत्तोऽनुवर्तनीयो गवेषणीयोऽन्तः समाप्तिर्यस्य । 'वृत्तान्तस्तु प्रकरणे कात्यै . वार्ताप्रकारयोः' इति हैमः ॥ (३ ) ॥ ॥ उद्गतोऽन्तो यस्य । 'उदन्तः साधुवार्तयोः' ॥ (४) ॥ ॥ चत्वारि 'वार्तायाः ॥ उपन्यासस्तु वाङ्मुखम् । उपेति ॥ उपन्यसनम् । 'असु क्षेपणे' ( दि० प० से ० ) । घञ् (३।३।१८) ॥ (१) ॥ * ॥ वाचो मुखमिव मुखमुपक्रमः ॥ (२) ॥ * ॥ द्वे 'वचनोपक्रमस्य' ॥ उपोद्धात उदाहारः उपोद्धात इति ॥ उप समीपे उद्धननं ज्ञापनम् । भावे घञ् (३॥३॥१८) ॥ (१) ॥ ॥ उदाहरणम् | घम् (३|३|१८)। (२) ॥ * ॥ द्वे 'वक्ष्यमाणोपयोग्यर्थ वर्णनस्य' । प्रकृतोप- पादकस्य दृष्टान्तादेरियन्ये ॥ शपनं शपथः पुमान् ॥ ९ ॥ शपममिति ॥ 'शप आक्रोशे' ( दि० उ० अ० ) । ल्युट् १ - भाष्ये तु 'अन्येष्वपि' इति दृश्यते ॥ २ - 'द्रुमेदे व्यवहारेऽपि ' इति प्राठान्तरम् ॥....