अमरकोषः । [ प्रथमं काण्डम् केचित्तु – भाष्यकारमतेन प्रथमः पक्षः 'एकतिङ् वाक्यम्' क्वचित्रयीधर्मशब्दस्यापि प्रयोगे लब्धे षष्ठीसमासः कल्प्यते । ( वा० २११1१1) इति वार्तिकाभिप्रायेणापरा-इत्याहुः ।प्रतिपाद्यप्रतिपादकंभावः संबन्धः षष्ध्यर्थः । तान्त्रिकसौ- यत्तु - पूर्व शब्दात्मकस्य वाक्यस्य लक्षणम् । 'क्रिया- ' गतादिधर्मव्यावृत्त्यर्थमिदं धर्मस्य विशेषणं संगच्छते । 'ध. इत्यादि त्वर्थात्मकस्य- इत्याहुः । तत्तु 'वचोऽशब्दसंज्ञायाम्' मैस्य च चतुर्दश' इति नियमात् । अतस्त्रय्यन्तानि चत्वारि ( ७७३।६७ ) 'इति कुत्वनिषेधकसूत्रस्याननुगुणम्' । 'उच्यते' इति वाक्यम् । वचेः (अ० प० अ० ) ण्यत् ( ३।१।१२४) । 'चजो:-' ( ७७३१५२ ) इति कुत्वं शब्दसंज्ञायाम् । अन्यत्र तु वाच्यम् । ('वाक्यं तु कुत्सिते हीने वचनार्हे च वाच्य- वत्' ) ॥ (१) ॥*॥ एकम् 'वाक्यस्य' | श्रुतिः स्त्री वेद आम्नायत्रयी वेदस्य नामानि । नच 'वेदास्त्रयस्त्रयी' इत्यनेन पौनरुत्त्यं शक्यम् । सामान्यविशेषरूपेणोभयसंभवात् । 'ब्राह्मणक्षत्रिय- वैश्या द्विजाः, विप्रोऽपि द्विजः' इति यथा । नच 'धर्ममस्त्रियाम्' इत्यनेन पौनरुक्त्यम् । तत्र धर्मपर्यायाणामभिधानात् । इह तु धर्मस्वरूपस्य धर्मप्रमाणस्य चाभिधानात् । यदपि -- समासे गुणीभूतस्यापि त्रयीशब्दस्य बहुविवक्षावशात्तच्छब्देन परा मर्शः - इत्युक्तम् । तदपि न । तन्मते त्रयीधर्मशब्दस्य विधेयत्वात्तदेकदेशस्य त्रयीशब्दस्यानुवाद्यत्वासंभवात् । वेद- स्यैव तच्छन्देन परामर्शसंभवाञ्च । यदपि - यथा शब्दानु- शासनम् इति दृष्टान्तप्रदर्शनम् । तदप्येतेन प्रत्युक्तम् । वेदस्यैव परामर्शसंभवात् ॥ त्रीणि 'वेदस्य' || धर्मस्तु तद्विधिः | ६४ ( श्रुतिरिति ॥) श्रूयते । 'श्रु श्रवणे' (भ्वा०प० अ०) । कर्मणि क्तिन् ( ३।३।९४ ) । 'श्रूयते धर्मोऽनया' इति वा । 'श्रूयंजीषिस्तुभ्यः करणे' (वा० ३१३१९४) इति क्तिन् । ' श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः स्त्रियाम्' ॥ (१) ॥ * ॥ विदन्त्यनेन धर्मम् 'विद ज्ञाने' ( अ० प० से ० ) । 'हलच' ( ३।३।२२१ ) इति घञ् । 'वेदः श्रुतौ च वित्तौ च' ॥ (२) ॥ * ॥ आम्नायते अभ्यस्यते । ‘ना अभ्यासे' ( भ्वा० प० अ० ) । कर्मणि घञ् ( ३।३।१९ ) 'आमनत्यु- पदिश्यति धर्माधर्मों' इति वा । 'श्याव्यधा-' (३।१।१४१) इति णः । 'आम्नायः कुल आगमे । उपदेशे च ' इति हैमः ॥ (३) ॥॥ (यत्तु ) — त्रीणि वेदस्य । त्रयीति । त्रय्या धर्मत्रयीधर्मः ।तया नव्या विधिर्विधीयमानो यज्ञा- दिस्तद्विधिः । 'विधानमृग्यजुःसाम्नां त्रयीधर्म विदुर्बुधाः' । • एकम् |– इति मुकुटः । तन्न । 'तानि धर्माणि' 'धर्मेण पाप- मपनुदति,’ ‘वेदोऽखिलो धर्ममूलं धर्ममूलमिदं स्मृतम्', ‘अथातो धर्मजिज्ञासा', 'चोदनालक्षणोऽर्थो धर्मः', श्रेया न्खधर्मः’, ‘धर्मक्षेत्रे कुरुक्षेत्रे’, ‘धर्मः प्रोज्झितकैतवः’, ‘धर्म- स्य ह्यापवर्ग्यस्य’, ‘धनं च धर्मैकफलम्’, ‘धर्मादर्थश्च’, ‘धर्मो ं रक्षति रक्षितः', 'धर्माधर्मो तद्विपाकाः', 'धर्म जिज्ञासमा नेन' इत्यादिषु बहुषु ग्रन्थेषु धर्मशब्दस्यैव प्रयोगदर्शनात् । देवदत्तो दत्तः, इतिवदेते प्रयोगाः सन्त्विति चेत् । न । वैष म्यात् । देवदत्तशब्दस्यानेकस्थले प्रयोगो दृष्टः । क्वचिद्दत- शब्दस्यापि प्रयोगे दृष्टे पूर्वपदलोपादिकं कल्प्यते । प्रकृते तु धर्मशब्दस्यैव प्रयोगो दृष्टः । ‘एवं त्रयीधर्मम्' इत्यादौ च १- कश्मीरलिखितपुस्तके तु एतदुत्तरम् - धर्मो रक्षतीत्यादौ तु सत्यभामेतिवत्पूर्वपदलोपो द्रष्टव्यः । नव्यास्तु त्रयी, इत्यन्तं चतुष्टयं वेदसामान्यस्य नाम | त्रयीशब्दो वेदसामान्ये त्रिवेद्यां च वर्तते । (यथा) द्विजशब्दो ब्राह्मणे त्रिवर्ण्यं च। त्रयीधर्मः, इत्यादौ त्रय्या धर्मंत्रयी धर्मः इति विग्रहो बोध्यः । त्रयीविशेषणं त्वागमादिव्यावृत्त्यर्थम् । आग- • मादिप्रोक्तस्य धर्मत्वाभावात् इत्याहुः । एकम् । 'ऋच स्तुतौ' ऋच्यन्ते स्तूयन्ते देवा अनया - इति पाठ उपलब्धः ॥ वेदविहितत्वं धर्मत्वम्, वेदश्च धर्मे प्रमाणम् इत्युक्तम् । घरति ( धर्म इति ॥) तेन वेदेन विधीयते यज्ञादिः । एतेन लोकान् । ध्रियते वा जनैरिति धर्मः 'अर्तिस्तुसु-' ( उ० ११४० ) इत्यादिना यो मन् ॥ (१) ॥*॥ (एकं 'वेद वि- हितकर्मणः' ) ॥ स्त्रियामृक् सामयजुषी (स्त्रियामिति ॥) ऋच्यन्ते स्तूयन्ते देवा अनया | 'ऋच स्तुतौ ' ( तु०प० से ० ) । किप् ( वा० ३।३।१०८ ) ॥ (१) ॥॥ स्यति पापम् । 'घोऽन्तकर्मणि' ( दि० प० अ० ) मनिन् ( उ० ४/१५३, ३२१७४) । 'साम क्लीबमुपायस्य मेदे वेदान्तरेऽपि च ॥ (१) ॥ ॥ इज्यतेऽनेन । 'अर्तिपूवपि-' ( उ० २ ११७ ) इत्युस् ॥ (१) ॥ * ॥ 'वेदानां' प्रत्येकमे- कैकम् ॥ इति वेदास्त्रयस्त्रयी ॥ ३ ॥ (इतीति ॥) इति एते त्रयो वेदास्त्रयी । त्रयोऽवयवा यस्याः सा संहतिः । त्रिशब्दात् 'संख्याया अवयवे तयप्' ( ५१२४२) । 'द्वित्रिभ्यां तयस्य -' (५|२|४३ ) इत्ययच् | | 'टिड्डा-' (५1१1१५ ) इति ङीप् । 'त्रयी त्रिवेद्यां त्रितये पुरंध्यां सुमतावपि इति हैमः ॥ (१) ॥ * ॥ 'वेदत्रयसं- घातस्य' एकम् ॥ शिक्षेत्यादि श्रुतेरङ्गम् व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिरित्येतैः षडङ्गो ( शिक्षेति ॥) श्रुतेर्वेदस्य शिक्षेत्यायनम् । 'शिक्षा कल्पो १- स्मृत्युक्तोऽपि वैदिक एव, वेदमूलकत्वात्स्मृतीनाम् इति क्षीर- स्वामी ॥ २ - आथर्वणस्तु त्रय्यनुवाद एवेति स्वामी ॥
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/७१
दिखावट